________________
दमयन्ती - कथा - चम्पूः
३२२
गतो रणरणककारणमपराधी विहंगः' इत्यभिधाय तं राजहंसमुभयकरकमलाञ्जलिगतमुत्फुल्लपाण्डुपङ्कजार्धमिव पुरः पादारविन्दयोर्निधाय राज्ञः प्रणाममकरोत् ।
राजाऽपि तस्याः-सरोरक्षिकायाः श्लिष्टार्थं द्व्यर्थमिदं आर्यायुगलं-छन्दोजातिविशेषनिबद्धपद्यद्वयमवधार्य - मनसि आकलय्य स्तोकं - अल्पं यत् स्मितं- हास्यं तदेव सुधापीयूषं तया धवलितः - पाण्डुरितः अधरपल्लवो यस्य स तथाविधः सन्नुवाच-हे लवङ्गिके ! सावसरं- ससमयं प्रस्तावोचितं प्रशस्तं - प्रधानं यथा भवति तथा कथयसि, तथा तेऽपि हंसा आगताः, अन्यथा तेषामनागमने खलु - निश्चितं तस्याः एकाकिन्याः हंस्याः कथं सम्भव:, इति तद्द्वार्त्तया - हंसवार्त्तया यावदास्ते ।
हंसगमनवार्तां यावत् कुरुते नृपस्तावत् मूर्तिमती - सदेहा शरदिव वनपालिका प्रविश्य- राजाङ्गणान्त: प्रवेशं विधाय हे देव ! सोऽयं यः पूर्वं तद्द्वार्त्तामकरोत् स एवाऽयं रणरणककारणं-औत्सुक्यनिमित्तं अपराधी - विरहव्यथोत्पादकत्वात् कृतापराधो हंसः कथमपिकेनचित् प्रकारेण आगत इत्यभिधाय - उक्त्वा उभयाभ्यां करकमलाभ्यां यो अञ्जलिस्त गतं-प्राप्तं उभाभ्यां कराभ्यां धृत्वा तं राजहंसं राज्ञः पादारविन्दयोः पुरः- अग्रे निधायसंस्थाप्य प्रणामं अकरोत् न [- ननाम । किम्भूतम् ? उत्प्रेक्ष्यते, उत्फुल्लं - विकसितं यत् पाण्डुपङ्कजं-श्वेतपद्मं तदेव अर्ध: - पूजाविधिस्तमिव । मन्ये, पाण्डुपङ्कजमेवार्थी कृतमिति । किम्भूता वनपालिका ? नीलोत्पलदलवद् दीर्घे - आयते लोचने यस्याः सा, तथा चन्द्रवद्वर्तुलं मुखं यस्याः सा चन्द्रमुखी, तथा बन्धूककुसुमवत् कान्तौ - रक्तौ दन्तच्छदौओष्ठौ यस्याः सा, तथा नीलं अंशुकं - वासस्तस्य पटी - उत्तरीयं तां परिदधाना - वसाना, तथा पक्वा या कलममञ्जरी तद्वद्गौरं पीतवर्णं अङ्गं शरीरं यस्याः सा परिपाके हि शालो गौरवर्णा भवन्ति । तथा प्रकाश:- प्रकटो हास: - हास्यं यस्याः सा तथा हंसै: - अपरैर्मरालैः अनुगम्यमाना-अनुस्रियमाणा, पुरतो वनपालिका पश्चात्ते हंसा आगच्छन्तीति । किम्भूता शरत् ? नीलोत्पलदलान्येव दीर्घे लोचने यस्याः सा तथा चन्द्र एव मुखं यस्याः सा शरदि सप्रभवत्वाच्चन्द्रमसः, तथा बन्धूककुसुमान्येव कान्तौ - मनोज्ञौ दन्त - छदौ यस्याः सा तथा नीलां - नीलवर्णांशुका एव पटी तां परिदधाना - बिभ्रती, तथा पक्वकलममञ्जर्य एव गौरं अङ्ग यस्याः सा, तथा प्रवृद्धाः कासा:- कासपुष्पाण्येव हासो यस्याः सा, तथा हंसैरनुगम्यमाना शरदि मानससरसो हंसानामागमनात् । तदानीमेव अब्जानां विकसनात् उत्फुल्लपाण्डुपङ्कजार्थतापि युक्ता ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org