SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः ईहा, न स्यन्दनाय - रथाय वाञ्छा, न स्यन्दनमारूढवतीत्यर्थः । तथा तस्याः सन्तापशान्तये तस्य-नलस्य ये गुणाः-औदार्यादयस्ते, यदा दानं - ग्रहणं तद्गुणादानं तदभूत्, न स्नानं सवनं सन्तापशान्तयेऽभूत् । ततः प्रभृति न कदापि स्नाति स्मेत्यर्थः । तथा तस्याः प्रीतये - प्रेम्णे हर:- शम्भुरेवाऽभवत्, न आहार:- भक्षणं प्रीतयेऽभूत् । तथा तस्या अङ्गे शरीरे उद्यानप्रभञ्जन:वनवात एव लगन्-आश्लिष्यन् सुखाय, न जन:- परिजनाङ्गे लगन् सुखायेति । मुहुर्मुहुः-१ वारम्वारं इदं श्लोकं-पद्यं पठति च— विश्राम्यन्ति न कुत्रचिन्न च पुनर्मुह्यन्ति मार्गेष्वपि, प्रोत्तुङ्गेऽपि लगन्ति नान्तरतरुश्रेणीशिखापञ्जरे । खिद्यन्ते न मनोरथाः कथममी तं देशमुत्कण्ठया, धावन्तः पथि न स्खलन्ति विषमेऽप्यास्ते स यस्मिन्प्रियः ॥ ५ ॥ विश्राम्यन्तीति वृत्तम् । यस्मिन् देशे स प्रियः - नल आस्ते - विद्यते "सत्तायां अस्ति आस्ते" [ ] इति क्रियाकलापे । तं देशं प्रति उत्कण्ठया - वाञ्छया धावन्तः -द्वतं गच्छन्तो अमी मनसि रथा इव मनोरथाः - संकल्पाः कथं न कुत्रचित् विश्राम्यन्ति - श्रान्ता भवन्ति । तथा पुनर्मार्गेष्वपि कथं न मुह्यन्ति - मूढा भवन्ति । न चेति सामुदायिको निपातो निषेधार्थः। तथा प्रोत्तुङ्गेऽपि प्रकर्षेणोच्चेऽपि अन्तरे - तयोरन्तराले यास्तरुश्रेणी-शिखास्ता एव अतिगहनत्वात् पञ्जरमिव पञ्जरं तस्मिन् कथं न लगन्ति न श्लिष्यन्ति । तथा कथं न खिद्यन्ते न खिन्ना भवन्ति । तथा कथं विषमे - दुःसंचारे पथि मार्गे न स्खलन्ति- न प्रतिहता भवन्ति, यत्र गन्तव्यं तत्र गच्छन्तीत्यर्थः । विश्रामादयो रथधर्माः, अन्ये हि रथा विश्राम्यन्ति, तथा विषममार्गेषु मुह्यन्ति, तथा दुपंक्तिशिखापञ्जरे लगन्ति, तथा खिद्यन्ते स्खलन्ति च, न पुनरमी मनोरथा इत्याधिक्यमेषां तेभ्यां इति ॥ ५ ॥ ३१९ " तेऽपि राजहंसा: शशाङ्कधरेषु, सप्रपञ्चपञ्चाननेषु, शिवरूपेषु वनेषु, सुशोभां कौमुदी दधत्सु शश्वदनुकृतसामुद्रवृद्धिषुर, चन्द्रमण्डलरूपेष्विव सरःसलिलेषु विहरन्तस्तुहिनाद्रिनिकुञ्जानिव सत्त्रिपथगान्नगनगरग्रामाग्रहारपुर ' पत्तनप्रदेशानुल्लङघयन्तः कतिपयदिवसैरासेदुरुद्यानं निषधायाः । क्रीडितुमारभन्त च स्वच्छन्दम् । अथ तेऽपि राजहंसा वनेषु - काननेषु सरःसलिलेषु च - सरसीजलेषु च विहरन्तः १. मुहुः नास्ति । २. विश्रान्ता अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy