SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः [ ] इत्यादि लिङ्गसूत्रान् मानुषशब्दस्य स्त्रीपुंसवृत्तिता, तथापि नपुंसकत्वं लिङ्गस्य लोकाश्रयत्वात् । तथा च भवभूतिः - ३१८ "अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्, विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्यया परिणते यत्स्नेहसारे स्थितं, भद्रं तस्य तु मानुषस्य कथमप्येकं हि तदुर्लभम् ॥ ४ ॥ [ ] इति चिन्तयन्ती १ गतेष्वपि तेषून्मुखी तां दिशमनुविस्मयविस्फारितलोचना' निष्पन्दतया काष्ठकल्पामवस्थां दधाना चिरात्सखीभिः सम्बोध्य स्वगृहान् अनीयत । इति- अमुना प्रकारेण चिन्तयन्ती - विचारयन्ती तथा तेषु -हंसेषु गतेष्वपि उन्मुखी - ऊर्ध्वमुखी सती तां उत्तरां दिशं अनुलक्षीकृत्य विस्मयेन - आश्चर्येण विस्फारिते-विकासि लोचने यया सा तथाविधा । तथा निष्पन्दतया - निश्चलतया तदवलोकनरसिकत्वेन काष्ठकल्पावस्थां-दारुसदृशावस्थितिं दधाना सती सा दमयन्ती चिराय - चिरकालं सखीभिः सम्बोध्य 'हे सखि एहि, गृहं यामः' इत्येवं सम्बोधनेन विषयीकृत्य स्वगृहान् अनीयत प्रापिता । “गृहाः पुंसि च भूम्येव" [ ] इत्यमर: । णीर्द्विकर्मकः । ततः प्रभृति तस्याः सरलीभवन्ति निश्वासा न हासाः, स्खलन्ति वाचो न शुचः, वर्धते तन्द्रा न निद्रा, द्रवति स्वेदाम्भो न स्तम्भः, मन्दायते स्वरो न स्मरः, वाञ्छा चन्दनाय न स्पन्दनाय, सन्तापशान्तये तद्गुणादानं न स्नानम्, प्रीतये" हारो नाहारः, सुखायाङ्गे लगन्नुद्यानप्रभञ्जनो न जनः । पठति च मुहुर्मुहुरिदं श्लोकम् । ततः प्रभृति- आगमनदिनादारभ्य तस्याः - दमयन्त्याः निश्वासाः सरलीभवन्ति - दीर्घो भवन्ति, न हासा : - हास्यानि सरलीभवन्ति । तथा तस्याः वाचः - वाण्यः स्खलन्तिप्रतिघातमाप्नुवन्ति, न शुचः - शोकाः स्खलन्ति, सर्वदापि तासां प्रवृत्तेः । तथा तस्यास्तन्द्राआलस्यं वर्धते-स्फीतीभवति, न निद्रा - स्वापो वर्द्धते विरहिणीत्वान्न निद्रातीत्यर्थः । तथा तस्याः स्वेदाम्भ:- घर्मजलं द्रवति-क्षरति, न स्तम्भः - जाड्यं द्रवति । तथा तस्याः स्वरः - ध्वनिर्मन्दायते - मन्दीभवति वक्तुं न शक्नोतीति भावः, न स्मरः - कामो मन्दायते स च दिने दिनेऽधिको भवतीत्यर्थः । तथा तस्याः विरहतापतप्तत्वात् चन्दनाय - गोशीर्षद्रवाय वाञ्छा १. 'वरणात्ययात् अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy