SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ पञ्चम उवासः ३१७ संस्थाप्य चिरं-चिरकालं ऊध्र्वैव-अनुपविष्टैव अवतस्थे-स्थिता । उत्तानितनेत्राभ्यां राजहंसानवलोकयन्ती तस्थौ इत्यर्थः । किम्भूते पक्षिपटले ? उत्प्रेक्ष्यते, चलन्तौ यौ पक्षपल्लवौ-पक्षती तयोर्व्याजतः-दम्भेन दूरात् दिक्पालान् इति आह्वयतीव-आकारयतीव । अनेन भावि दिक्पालागमनसूचा । इतीति किम् ? आगच्छन्त भो दिक्पालाः ! यूयं, तथा सफललोचना:-सफलनेत्राः भवन्तः सम्पद्यन्तां, नेत्रयोः फलमास्वादयन्तु इत्यर्थः । तथा यूयं अपूर्व-अद्भुतं स्त्रीरत्नं पश्यत । अन्योपि यो दूरात् कमपि आह्वयति स किल विततकरचालनयाऽऽह्वयति तथैते हंसा अपि । पुनरुत्प्रेक्ष्यते, तीव्राः-उग्रा ये ब्रनमयूखा:रविकरास्तैः संतप्तां दिवं-नभ उपवीजयतीव-व्यजयतीव व्यजनकर्म कुर्वतीव, अन्योपि यस्तप्तो भवति स किल शान्तीकरणाय वीज्यते तथैतत्पक्षिवृन्दमपि चलत्पक्षतिभ्यां रविकरतप्तं व्योमवीजयतीति । पुनरुत्प्रेक्ष्यते, दिक्कुञ्जरैः-दिग्गजैः निरुद्धः-व्याप्तो अवकाशः-अन्तरालं यासां ता ईदृश्य आशा:-दिश आश्वासयतीव-तासां दुःखनिवृत्ति कुर्वतीव । अन्योपि यः कैश्चिद् बलवद्भी रुद्धो भवति तस्य दुःखनिवृत्यर्थमाश्वासनं क्रियते तथैते राजहंसा अपि चलत्पक्षतिभ्यां दिग्गजाक्रान्तदिशां आश्वासनं कुर्वन्तीति । चिन्तितवती च तात तावन्ममाप्येवं न विधत्से प्रजापते । पक्षौ पक्षिवदुड्डीय येन पश्यामि तन्मुखम् ॥ ३ ॥ चिन्तितवती च-विचारयति स्म तातेति । तावदादौ हे तात-पितः ! प्रजापते !-वेधः । एवमिति यथैषां पक्षौ विहितौ स्तः तथा ममापि पक्षौ किं न विधत्से-किं न कुरुषे ! किमिति अध्याहियते । येनहेतुना पक्षिवत् उड्डीय-विहायो गति विधाय तस्य-नलस्य मुखं पश्यामि ॥ ३३ ॥ अपि च उड्डीय वाञ्छितं यान्तो वरमेते विहङ्गमाः । न पुनः पक्षहीनत्वात्पगुप्रायं कुमानुषम् ॥ ४ ॥ अपि च-पुन: उड्डीयेति । उड्डीय वाञ्छितं-अभिलषितं देशं यान्त:-गच्छन्त एते विहङ्गमा:-पक्षिण: वरं-मनागिष्टा, न पुनः पक्षहीनत्वात्-पिच्छरहितत्वात् पङ्गप्रायं-पङ्गसदृशं कुमानुषं वरं । वरमिति मनागिष्टेऽव्ययम् । यद्यपि मनोरपत्यं स्त्री-मानुषी पुमान्-मानुष इति “द्विचतुःपद" १. आसादयन्तु अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy