________________
दमयन्ती - कथा - चम्पूः
३१६
पुरो भवद्वर्णनाभारः" इत्यभिधाय सह तेन वियद् विहंग गणेनोत्पपात ।
प्रत्यक्षे स्तुतिरनुचिता, तत् इत्युपसंहारे, तस्माद्धेतोः हे कल्याणबन्धो ! - भद्रभ्रातः ! न जानीमः किमुच्यसे- कथं कथ्यसे । यत्र तत्रापि वाक्ये बाधासम्भवात् भवादृशां - सुभगमूर्तीनां अदर्शनं-अवीक्षणमेव वरं मनागिष्टं, न तु लूयमाना:-छिद्यमाना ये अङ्गावयवास्तद्वद् दुःसहः-सोढुमशक्यो दर्शनव्याघातः - दर्शनविच्छेदो वरं, एकशो मिलित्वा पुनर्वियोगस्तु अतितरां दुःखं जनयतीत्यर्थः । अमृतं अनास्वादितं - अपीतमेव वरं, न तु सकृत्-एकवारं पीत्वा पुनः अलाभेन - अप्राप्त्या दुःखं वरं ।
तत एष त्वं प्रार्थ्यसे-याच्यसे भूयो दर्शनार्थं - पुनर्दर्शनं देया इत्यर्थः । अस्माकं अनुस्मरणमेव नाटकं नृत्यं तस्य सूत्रधारीव - सूचिकेव रङ्गाचार्येव अनया दृष्ट्या अस्माकं स्मरणं भविष्यतीत्येवंरूपा इयं च हारलता भवतः प्रियस्य- इष्टस्य कस्यापि उपायनमात्रंढौकनिकामात्रं भविष्यतीति अभिधाय उक्त्वा नलं उररीकृत्य - अधिकृत्य इति द्विसंख्यसंदेशार्थं द्विप्रकारसन्देशनिमित्तमिव द्विगुणीकृत्य - द्विसरीकृत्य स्वकण्ठकन्दलात्आत्मकण्ठपीठात् उन्मुच्य च - उत्तार्य मूर्तिमतीं- सदेहां उत्कण्ठामिव - वाञ्छामिव मुक्तावलीं तस्य-हंसस्य गले व्यलम्बयत् - निचिक्षेप । इतीति किम् ? हे महानुभाव ! नल द्विधा श्रुतोऽसि पान्थात् अस्माच्च राजहंसात् । तथा द्वाभ्यामुद्यसे - धार्यसे वाचा हृदयेन च वाण्या त्वन्नाम गृह्यते मनसा च स्मर्यसे इति । तथा द्विकालं स्मर्यसे दिवा दिनेन नक्तं- रात्रौ । तथा द्वयीगतिरूपा योऽस्माकं इदानी त्वं त्वदप्राप्तौ मृत्युर्वा ।
सोऽपि - हंस इति अभिधाय तेन विहंगगणेन सह वियति - व्योम्नि उत्पपातउड्डीन: । इतीति किम् ? हे सुन्दरि ! मया मुक्तावलीछलेन - मुक्तालतादम्भेन तस्य नलस्य पुरः - अग्रे सोऽयं भवद्वर्णनाभारः- त्वदीयस्तुतिसंदोहः स्कन्धीकृतः - अङ्गीकृतः, त्वदीया स्तुतिस्तस्य पुरो वक्तव्येत्यादृतमित्यर्थः । भारो हि उद्वहनाय स्कन्धे क्रियत इति ।
उत्पतिते च नभस्तलम् 'आगच्छत, संपद्यन्तां ३ सफललोचना: ४, पश्यतापूर्वं स्त्रीरत्नम्' इति चलत्पक्षपल्लवव्याजेन दूराद्दिक्पालानिवाह्वयति तीव्रब्रध्नमयूखसंतप्तां दिवमिवोपवीजयति, दिक्कुञ्जरनिरुद्वावकाशा आशा इवाश्वासयति, पक्षिपटले तस्मिन्विस्मयोन्मुखी सा भूपालपुत्री निर्निमेषं निक्षिप्य चक्षुश्चिरमूर्ध्वं वावस्थे ।
अथ नभस्तलं उत्पतिते च- उड्डीने च तस्मिन् पक्षिपटले- हंसवृन्दे विस्मयेन-आश्चर्येण उन्मुखी-ऊर्ध्वमुखी सा भूपालपुत्री - दमयन्ती निर्निमेषं - अक्षिसंकोचरहितं चक्षुर्निक्षिप्य -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org