SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ३१५ पञ्चम उद्दासः अनभ्यासं-अभ्यासोऽभावः प्रत्ययनिर्देशात् सामीप्य नास्त्यभ्यासो यत्र, तथाविधं अन्येषां हि सामीप्यात् सौहार्दं भवति अस्य तु अन्यथापि । तथा अस्य मैत्री न पूर्वं दृष्टं-दर्शन यस्यां सा अदृष्टपूर्वा । " भावे क्तः [ ] आहिताग्न्यादित्वान्निष्ठान्तं प्राक् प्रयोज्यं, अन्येषां हि मैत्री दर्शनपूर्वा भवति अस्य तु पूर्वमदृष्टायामपि मयि मैत्रीकरणशीलता इति । तत् इत्युपसंहारे, तस्मात् एवंविधो निर्निमित्तबन्धुः- निमित्तं विनैव बन्धुः-स्वजन: किमर्थ्यते-किं याच्यते । यतः केन याच्यन्ते चन्द्रचन्दनसज्जनाः परोपकाराय, यदुत भवन्त उपकुर्वन्त्विति, किन्तु स्वत एव उपकुर्वन्ति प्रार्थिताः । किन्तु कतिपयान्-कियतो मुहूर्त्तान् यावद् यो मैत्रीरसस्तेन रञ्जितं - आवर्जितं अस्माकं मनो येन स तस्य, दुस्त्यजस्य - त्यक्तुमशक्यस्य अस्य-हंसस्य अकाण्ड एव - अप्रस्ताव एव गन्तुमुत्सहमानस्य उद्यच्छतः - अभिलषतः किं ब्रूमः - किं वच्म: ? मा गा इत्यपशकुनः गच्छेति निष्ठुरता - कर्कशत्वं । अथ यत् इष्टं वाञ्छितं तद् विधीयतामित्यौदासीन्यं - उदासीनता । अथ आदर्शनात् - दर्शनं यावत् प्रियोसि - वल्लभोसि इति क्रियाशून्य आलाप:, उपविश गच्छ वा इति क्रिया तया रहित आलापः-आभाषणं । अथ कस्त्वं' एवंविधो दिव्यवाक्- मधुरगीः पक्षिरत्नमिति अप्रस्तुतः - अप्राकरणिकः प्रश्नः । अथ केनार्थी-केन वस्तुना अर्थी-अर्थोऽस्यास्तीति अर्थी, कि वस्तु अर्थयसे इति अप्रकान्तंअनावसरिकं । अथ किं ते प्रियं इष्टं आचराम: - कुर्मः इत्युपचारवचनं - सेवावाक्यं । अथ कृत उपकारो येन स कृतोपकारस्तथाविधोसि इति प्रत्यक्षा-साक्षात् स्तुतिः । तन्न जानीमः कल्याणबन्धो, किमुच्यसे । वरमदर्शनमेव भवादृशाम्, न तु लूयमानाङ्गावयवदुः सहो दर्शनव्याघातः । वरमनास्वादितमेवामृतम्, न तु सकृत्पीत्वा पुनरलाभदुःखम् । तत एष प्रार्थ्यसे भूयो दर्शनार्थम्, इयं च भविष्यति भवत्प्रियस्य कस्याप्युपायनमात्रमस्मदनुस्मरणनाटकसूत्रधारी हारलता४' इत्यभिधाय नलमुररीकृत्य 'महानुभाव, द्विधा' श्रुतोऽसि पान्थादस्माच्च राजहंसात्", द्वाभ्यामुह्यसे वाचा हृदयेन च, द्विकालं स्मर्यसे दिवा नक्तं च, द्वयी गतिरस्माकमिदानीं त्वं वा मृत्युर्वा' इति द्विसंख्यसंदेशार्थमिव ' द्विगुणीकृत्योन्मुच्य च स्वकण्ठकन्दलादुत्कण्ठामिव १० स्वां११ मूर्तिमतीं तस्य १२ मुक्तावलीं गले व्यलम्बयत् । सोऽपि सुन्दरि, सोऽयं १३ स्कन्धीकृतो मया मुक्तावलीच्छलेन तस्य 4 १. त्वं - नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy