SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३१४ दमयन्ती-कथा-चम्पू: अभिलषणीया या उक्तयस्ताभिरभिधातव्यः-वाच्यः । यथेयं तस्मिन्ननुरक्ता कृता विद्यते तथा सोप्येतस्यांरागवान् विधेय इति, कन्दलेभ्योपि रागस्य-रक्तताया उत्पत्तिर्भवतीति छायार्थः । यतः, न ह्येकहस्तेन तालिका वाद्यते । न चैकं तप्तं लोहं अपरेण-अन्येन अतप्तेन लोहेन संधीयते-सन्धान संश्लेषं प्राप्रोति । "कर्म कर्तरि यक्" [ ]। तथा नाप्येकं रक्तमपि वस्त्र अन्येन-अरक्तेन वाससा संयोजितं-सन्धितं सत् शोभां लभते । केवलं-परं वियुगलंविरुद्धयुगलमेव भवति, विरुद्धमेव द्वन्द्वं स्यात् । इत्येवं वदितुं शीलं यस्याः सा इत्येववादिनी तां परिहासशीलां प्रति दमयन्ती अलपत् । सखि, किमस्य निष्कारणवत्सलस्यैवमभ्यर्थ्यते । यस्यास्मासु निरपेक्षः पक्षपातः स्वभावजं सौजन्यम्, अकृत्रिमः स्नेहभावः, अनुपचरितमुपकारित्वम्, अपरिचया प्रीतिः, अनभ्यासं सौहार्दम्, अदृष्टपूर्वा मैत्री । तदेवंविधो निनिमित्तबन्धुः किमर्थ्यते३ । केन याच्यन्ते चन्द्रचन्दनसज्जनाः परोपकाराय । किन्तु कतिपयमुहूर्त्तमैत्रीरस रञ्जितास्मन्मनसो दुस्त्यजस्याकाण्ड एवास्य गन्तुमुत्सहमानस्य किं ब्रूमः । मा गा इत्यशकुनः६, गच्छेति निष्ठरता, यदिष्टं तद्विधीयतामित्यौदासीन्यम्, आदर्श नात्प्रियोऽसीति कि याशून्यालापः, कस्त्वमेवंविधो दिव्यवाक्पक्षिरत्नमित्यप्रस्तुतः७ प्रश्नः, केनार्थीत्यप्रकान्तम्, किं ते प्रियमाचराम इत्युपचार वचनम्, कृतोपकारोऽसीति प्रत्यक्षस्तुतिः । हे सखि ! अस्य निष्कारणवत्सलस्य-कारणं विनैव स्निग्धस्य हंसस्य किंएवमुक्तनीत्या अभ्यर्थ्यते-किं याच्यते । यस्य-हंसस्य अस्मास निरपेक्षः-अपेक्षां प्रयोजनं विनैव पक्षपात:-मित्राद्यवष्टम्भः, अन्येषां हि अपेक्षां-अपेक्ष्यैव पक्षपातो भवत्यस्य त्वन्यथापि । तथा अस्य सौजन्यं-सुजनता स्वभावजं-अकृत्रिमम् , अन्येषां हि सौजन्यं कृत्रिमं स्यात् अस्य तु न तथेति । तथा अस्य स्नेहभावः अकृत्रिमः-स्वभावजः । तथा अस्य उपकारित्वं-उपकारजनकत्वं अनुपचरितंअगौणं मुख्यमित्यर्थः । तथा अस्य प्रीति:-प्रेम अपरिचयात्-परिचयं विनैव, अन्येषां हि प्रीति: परिचयात्-सह संवासात् भवति, अस्य तु परिचयं विनाऽपि । तथा अस्य सौहार्द १. एकहस्ततलेन अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy