SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः ३१३ ननु यद्यहं दूतं प्रेषयिष्यामि तदा स्वच्छन्दचारिणीयं इति किम्वदन्ती भविष्यति इत्याशंक्याह ' न च बृहत्यासंपदान्विते जगत्याख्याते ? सत्कृत गुरुगणे शार्दूलविक्रीडिताडम्बरिणि पुण्यश्लोके पर्यालोच्यमाने छन्दसि प्रार्थ्यमाने च तस्मिन्निषधेश्वरे वृत्तभङ्गो भवति' इत्यभिधाय गन्तुमुदचलत् । न चेति । एवंविधे छन्दसि पर्यालोच्यमाने-विचार्यमाणे वृत्तं पद्यं तस्य भङ्गो न भवति छन्दोजातिपरिच्छेदात्, तस्मिन्ं निषधेश्वरे - नले च दूतद्वारा प्रार्थ्यमाने - अभिलष्यमाणे वृत्तस्यशीलस्य भङ्गो न भवति । किम्भूते छन्दसि ? बृहतीजगतीशब्दौ ? छन्दोजातिवचनौ तृतीयान्तौ ख्यातपदेन-प्रसिद्धार्थेन योज्यौ । बृहत्या ख्याते प्रसिद्धे तथा जगत्या ख्याते-प्रतीते, तथा सङ्गतै:पदैरन्विते । अथवा छन्दसि कथम्भूते ? पदान्विते, कथं ? यथा भवति बृहत्यासं - बृहत्यां जातौ असौ-अवस्थानं यस्येति, पदान्वितक्रियाविशेषणम् । यद्वा, बृहत्या जात्या हेतुभूतया या सौ सम्पत्-शोभा तयान्विते । तथा गुरवः- द्विमात्रा वक्राकृतयः सत्कृतो गुरूणां गणो यस्मिंस्तत्तथाविधे । तथा शार्दूलविक्रीडितं नाम छन्दस्तस्य आडम्बर:- गौरवं यत्र तत्तस्मिन् । तथा पुण्यः-पवित्रः श्लोकं-पद्यं यस्मिंस्तत्तथाविधे । इह यद्यपि श्लोक:- अनुष्टुप् छन्दस्त्वेन लोके प्रसिद्धस्तथापि केचित् सर्वमपि पद्यं-श्लोकमाहुः। नलपक्षे किम्भूते नले ? बृहत्या - गुर्व्या सम्पदा-श्रिया अन्विते, तथा जगति-लोके आख्याते - कीर्त्तिते, तथा सत्कृतः - सम्मानित: गुरूणां - गौरवार्हाणां आचार्याणां - वृन्दो' येन स तस्मिन्, तथा शार्दूलविक्रीडितं सिंहविलसितं तद्वत् आडम्बरः- - आटोपो विद्यते यस्य स तस्मिन्, तथा पुण्य:- पवित्रः श्लोकः- यशो यस्य स तस्मिन् । इति पूर्वोक्तमभिधायउक्त्वा गन्तुं यातुं उदचलत् प्रावर्तत । गण: उच्चलितं च तं-हंसं परिहासशीला सखी पुनर्बभाषे - 'महानुभाव ! यथेयमनुरागकन्दलैरालापैस्त्वयोक्ता तथा सोऽपि स्पृहणीयोक्तिभिरभिधातव्यः । यतो न ह्येकहस्तेन तालिका वाद्यते ", न चैकं तप्तमतप्तेनापरेण लोहं लोहेन संधीयते, नाप्येकं रक्तमरक्तेनान्येन' वस्त्रमपि वाससा संयोजितं शोभां लभते । केवलं वियुगलमेव भवति इति । एवं वादिनीं दमयन्ती परिहासशीला मलपत् । हे महानुभाव !-हंस ! यथेयं दमयन्ती अनुरागाय - प्रेमबन्धाय कन्दला इव-प्ररोहा इव तज्जनकत्वात् ये ते तथाविधैरालापैस्त्वया उक्ता तथा सोऽपि नलः स्पृहणीया १. जगती नास्ति अनू. । २. वृन्दं अनू । ३. यशो नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy