SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ३१२ दमयन्ती-कथा-चम्पू: कस्याप्यस्तीत्यर्थः । ईदृशो नलो रत्नं । फलितमाह-कुरङ्गशावनयनवत्-मृगार्भकनेत्रवत्चञ्चले नयने यस्याः सा तस्याः सम्बोधने हे कुरङ्गशावनयने ! "शाकपार्थिवादित्वान्मध्यमपदलोपीसमासः१" [ ] । सा त्वं-दमयन्ती तस्य पृथ्वीपतेः-नलस्य योग्यासि । भवत्या एतावत् पूर्वोक्तं कथितं-अस्मात् पूर्वकथितात् अन्यत्-अपरं उत्कृष्टं किं-न किञ्चिदस्तीत्यर्थः । भवतोर्योग एव श्रेयानिति भावः । अथ वयं याम: ते-तुभ्यं स्वस्ति-कल्याणमस्तु ॥ २ ॥ अन्यच्च - चन्द्रमुखि, महानाम्नि सुसंधिकृति सुसमासाख्याततद्धिते सत्कारके परिभाषाकुशले बलाबलविचारिणि विचार्यमाणे व्याकरणे प्रेष्यमाणे च दूते नापशब्दसम्बन्धौ भवति । तत्प्रेष्यतां तथाविधस्तस्यान्तिकं कोऽपि दूतः । अन्यच्चेति । हे चन्द्रमुखि !-शशिवदने ! अन्यत्-अपरं च ईदृशे व्याकरणेशब्दशास्त्रे विचार्यमाणे अपशब्दः-असाधुशब्दस्तस्य सम्बन्धः-सम्यक्बन्धः-रचना स न भवति, साधुशब्दप्रयोगो भवतीत्यर्थः । ईदृशे च दूते प्रेष्यमाण-मुच्यमाने अपशब्दोऽपवादस्तस्य सम्बन्धः-संश्लेष स न भवति, अपवादो न भवतीत्यर्थः । किम्भूते व्याकरणे ? महन्नाम यस्मि-तत् महानाम तस्मिन्, नाम प्रातिपदिकं तद्विषयं प्रकरणमपि नाम इत्युपचारे सति महदिति तद्विशेषणस्य सफलत्वं । नाममात्रस्य तु महच्छब्देन व्यवच्छेद्याभावात् । तथा सुष्ठ सन्धिः-वर्णसंश्लेषः कृत्संज्ञकश्च प्रत्ययो यत्र तत् सुसन्धिकृत् तस्मिन् सुसन्धिकृति । तथा सुष्ठ समासः-तत्पुरुषादिराख्यातं-क्रिया तद्वितोणादिर्यत्र तत्तस्मिन् सुसमासाख्याततद्रिते । तथा सत्-वर्तमानं कारकं-अपादानादि यस्मिंस्तत्तस्मिन् सत्कारके । तथा परिभाषा:-न्यायसूत्राणि तया कुशले-भद्रे । तथा बलाबलं-पूर्वपरविधीनां बाधस्थितिस्तस्य विचार:-विमर्शो विद्यते यस्मिंस्तत्तस्मिन् बलाबलविचारिणि । दूतपक्षे, महन्नाम अभिधानं यस्य स महानामा तस्मिन् । तथा सुष्ठ सन्धि-सम्बन्धं पणबन्धं करोतीति सुसन्धिकृत् तस्मिन् सुसन्धिकृति । तथा सुष्ठ समासेन-संक्षेपेण आख्यातंकथितं तस्मै नलाय हितं येन स तस्मिन् । तथा सत्कारके-सत्क्रियाजनके तथा परितो भाषा:संस्कृतप्राकृताद्याः कर्णाटादिदेशभाषा वा तासु कुशले-दक्षे । तथा बलाबले-शक्त्यशक्ती तयोर्विचारो विद्यते यस्यासौ एतस्य शक्तिरस्ति एतस्य नास्तीत्येवं विमर्शके । तत्-तस्माद्रेतोः तस्य नलस्य अन्तिकं-समीपं तथाविध:-पूर्वोक्तस्वरूपो दूतः प्रेष्यतां-मुच्यताम् । १. मध्यपद° अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy