________________
पञ्चम उच्छ्वासः
३११
तद्भाषितमत्युदारमित्यर्थः । तथा यस्मिन्नले परिचिते - परिशीलिते अमृतं न श्लाघ्यं, तत्परिचयस्तु अमृतादप्यधिकमित्यर्थः । तथा यस्मिन्नले अभ्यस्ते - सन्निहिते इन्दुः-चन्द्रो न आनन्दी न आनन्दजननशीलः, तत्सन्निधानं तु चन्द्रादप्यधिकाऽऽनन्दजनकमित्यर्थः । तथा यस्मिन्नले प्रसादिते - अनुगृहीते धनदः - कुबेरो न प्रशंसास्पदं न प्रशंस्यः, धनदप्रसादादपि तत्प्रसादोऽधिकफलप्रदातेत्यर्थः ।
किं
बहुना
किम्बहुना - किम्बहूक्ते -
भवति यदि सहस्त्रं वाक्पटूनां मुखानां, निरुपममवधानं जीवितं चापि दीर्घम् । कमलमुखि ! तथापि क्ष्मापतेस्तस्य कर्तुं, सकलगुणविचारः शक्यते वा न वेति ॥ १ ॥
भवतीति । हे कमलमुखि !- पद्मवदने ! यदि वाचि - वाण्यां पटूनि समर्थानि वाक्पटूनि तेषां वाक्पटूनां - वचनप्रगल्भानां मुखानां सहस्रं भवति, अपि च निरुपमं - अत्यद्भुतं अवधानं-तद्गुणवर्णने चित्तैकण्यं यदि भवति, अपि च दीर्घं - चिरंजीवितं-प्र - प्राणधारणं यदि भवति तथापि तस्य क्ष्मापते:- नलस्य सकलगुणानां विचारः-विमर्शः कर्तुं वा शक्यते-न शक्यते वा इति । एतावता नलस्य गुणानामानन्त्यं दर्शितम् ॥ १ ॥
अपि च
संसाराम्बुनिधौ तदेतदजनि स्त्रीपुंसरत्नद्वयं, नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा नलः । सा त्वं तस्य कुरङ्गशावनयने ! योग्यासि पृथ्वीपतेरेतत्ते कथितं किमन्यदधुना यामो वयं स्वस्ति तम् ॥ २ ॥
अपि च- पुन:
संसारेति । हे दमयन्ति ! संसाराम्बुनिधौ तदेतत् स्त्रीपुंसावेव रत्नद्वयं अजनि जातं स्त्रीपुंसेति "अचतुर" [पा. सू. ५/४/७७] इत्यादिना अजन्तो निपात्यते । अध रत्नोत्पादात् । किं तद्द्वयम् ? इत्याह- नारीणां मध्ये भवती रत्नं नृणां मध्ये पुनरसौ । सौभाग्यस्य-सर्वजनवाल्लभ्यस्य सीमा - मर्यादा यत्र स सौभाग्यसीमा, अतोऽधिकं सौभाग्यं न
Jain Education International
१. अधिक इत्यर्थः अनू. ।
For Personal & Private Use Only
www.jalnelibrary.org