SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ३०८ दमयन्ती-कथा-चम्पू: वृद्धिंगतया चिन्तया कदा नलेन सह मिलिष्यामीत्येवंरूपया, हे वत्से-पत्रि ! चिरात्चिरकालान्मिलिता त्वं इत्युक्त्वेव हृदये-चित्ते आश्लिष्टा-अवष्टब्धा, सचिन्ता जातेत्यर्थः । असीति अव्ययं त्वमित्यर्थे । तथा हे पुत्रिके ! कथमपि महता कष्टेन इष्टासीति सम्भाष्येववादयित्वेव उत्कम्पं जनयतीति उत्कम्पजननी तया रोमाञ्चावस्थया सर्वाङ्गेषु-सर्वावयवेषु आलिङ्गिता-आश्लिष्टा, सर्वाङ्गेषु सकण्टका जातेत्यर्थः । अर्थान्तरे तु, प्रवृद्धया-जरत्या उद्गतकम्पया जनन्या-मात्रा आलिङ्गितेव । तथा हे तरुणि ! इदानी शैशवव्यवहारःबालत्वव्यवस्था त्यज्यतां इति आलाप्येव-संभाष्येव प्रमुखेण-प्रधानेन मुखवैवर्येनवक्त्रविच्छायभावेन स्पृष्टा, मुखं विच्छायमभूदित्यर्थः । तथा हे मुग्धे ! स्वच्छन्दभाव:स्वैरगामित्वं मुच्यतां इत्यनुशास्येव-शिक्षयित्वेव गुरुणा-दुर्वहभरेण मकरध्वजेन-कामेन निजाज्ञां ग्राहिता-स्ववशं नीता, कामातुरा जातेत्यर्थः । अर्थान्तरे तु, प्रकृष्टं मुखं यस्य स तेन प्रमुखेण गुरुणा-आचार्येण निजाज्ञां ग्राहितेति । तथापि दमयन्ती क्षणमिव-क्षणमेकं यावत् महानुभावतां-महाशयत्वं अवलम्ब्य-अवष्टभ्य न उपलक्षिता-ज्ञापिता । अवस्थाअभिलाषचिन्तादिका दशसंख्या यया सा तथाविधा अवतस्थे-अस्थात्, स्वाभिलाषाद्यवस्था नाज्ञापयदित्यर्थः । तां च तथा बलात्सरलीभवन्निश्वाससूचितान्तर्मन्मथव्यथावेगाम् अकाण्डकुण्ठितधैर्यासिधारां, हृत्पुण्डरीके मनोरथानीतनलावलोकनार्थमिवान्तर्मुखीभूतचक्षुर्व्यापाराम, आकस्मिकस्मरापस्मारेण ३दाम्यन्ती दमयन्तीमवलोक्य तदिङ्गिताकारकुशला परिहासव्यसनिनी परिहासशीला नाम सखी 'महानुभाव, नास्माकमद्यापि तद्गुणश्रवणाय श्राम्यति श्रवणेन्द्रियम् । न तृप्याते प्रश्नरसायने जिह्वा । न सन्तुष्यति विशेषज्ञानाय शेमुषी। नानुरागायोपरमते मनः । तत्कथं कृतवानसि गीतस्येव विस्वरम्, वाद्यस्येव वितालम्, लास्यस्येवान्यथापदप्रचारम्, अत्यन्तरसविच्छेदकारिणं कथाप्रक्रमस्य विरामम्, एतत्परमपि पिपासया पयःपातुमुद्यतस्येवाविरतायां१० तृषि वारिधाराविधारणं१९ । इयं सा भुञ्जानस्यार्धतृप्ति:१२ सोऽयमसमाप्तरतस्य१३ रिरंसाव्याघातः । तन्न युक्तमन्तरेव विरन्तुम् । निष्कारणोपकारिन्१५, पुनः१६ प्रवर्त्यतां पुण्यराशे स्तस्य स्वरूपाख्यानामृतप्रपामण्डपो१८, निर्वान्तु१९ चिरकालमनङ्गग्रीष्मोपतप्ता एवंविधकन्यकाः प्रसारितश्रवणाञ्जलयः, इति दमयन्तीमधैक्षणेन२० कटाक्षयन्ती तं राजहंसमालापयाञ्चकार२१ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy