________________
पञ्चम उछासः
३०९ तां चेति । तथेति मदनातुरां तां च-दमयन्तीमवलोक्य परिहासशीला नामेति प्रसिद्धा सखी इति-वक्ष्यमाणप्रकारेण दमयन्तीं अर्द्धक्षणेन-अर्द्धनेत्रेण कटाक्षयन्तीअवलोकयन्ती तं-राजहंसं आलापयाञ्चकार-अवादयत् । किम्भूतां दमयन्तीम् ? बलात्बलात्कारेण सरलीभवन्तः-दीर्घाभवन्तो ये निःश्वासास्तैः सूचितः-ज्ञापितः अन्तःचेतसि मन्मथव्यथावेगः-कामपीडाप्रसरो यस्याः सा तां, दीर्घनिःश्वासैहि ज्ञायते यदेतस्या मान्मथीव्यथा प्रथितास्तीति । तथा अकाण्ड एव-अप्रस्ताव एव कुण्ठिता-भग्ना धैर्यधीरत्वमेव असिधारा-खड्गधारायस्याः सा तां, विलीनधैर्यामित्यर्थः । तथा अन्तर्मुखीभूत:अबहिर्मुखीभूतश्चक्षुर्व्यापार:-नेत्रावलोकनं यस्याः सा तां, हृदयं प्रत्यवलोकयन्तीत्यर्थः१ उत्प्रेक्ष्यते, हृत्पुण्डरीके -हृत्पद्मे मनोरथेन-अभिलाषेण आनीतो यो नलस्तस्य अवलोकनार्थमिव । मन्ये, हृदये मनोरथेन नलः समानीतोस्ति तं अवलोकयितुं नेत्रे हृदयाभिमुखे विहिते इति । तथा आकस्मिक:-अकाण्ड एव उत्पन्नो यः स्मर एव अपस्मारः-ग्रहावेशस्तेन दाम्यन्ती-गृह्यमाणां स्मरपरवशामित्यर्थः । “अपस्मार आवेशः ग्रहदुःखाद्यैरस्योत्पत्तिः" इति [ ] काव्यप्रकाशटीकायाम् । किम्भूता परिहासशीला ? यस्याः दमयन्त्या इङ्गितं-चेष्टितं आकारे मुखरागादिस्तत्र कुशला-चतुरा, तदिङ्गिताकारपरिच्छेत्री-त्यर्थः । पुनः किम्भूता ? लीलापूर्वको हास:- परिहासतस्मिन् परिहासे व्यसनं-आसक्तिर्यस्याः सा तथाविधा । इतीति किम् ? हे महानुभाव !-महाप्रभाव ! तस्य नलस्य ये गुणास्तेषां श्रवणाय नास्माकं श्रवणेन्द्रियं अद्यापि श्राम्यति-श्रान्तं भवति, विशेषतः श्रवणाय प्रवर्तत इत्यर्थः। तथाऽस्माकं जिह्वा प्रश्नितं तत्कथाप्रकरणमेव रसायनं-जरामरणापहमौषधं तस्मिन् न तृप्यति-न तृप्तिमेति, अद्यापि पुनः पृच्छामीत्येवं साभिलाषेत्यर्थः । तथा अस्माकं शेमषीबुद्धिविशेषज्ञानाय-तत्कथातात्पर्यपरिच्छेदाय न सन्तुष्यति-न सन्तुष्टा भवति, पुनरपि तद्विशेषावबोधाय प्रवर्तत इत्यर्थः । तथा अस्माकं मनः अनुरागाय-प्रेमबन्धाय नोपरमते-न निवर्तते, पुनरपि तस्मिन् अनुरज्यत इत्यर्थः । तत्-इत्युपसंहारे, तस्मात् कथं अत्यन्तंअतिशयेन रसविच्छेदं-स्वादभङ्गं करोतीत्येवंशीलं कथाप्रक्रमस्य-कथापरिपाट्याः कथावसरस्य वा विराम-निवृत्तिं कृतवानसि । “प्रक्रमोऽवसरे क्रमे" [३/४९८] इत्यनेकार्थः । कस्य ? कमिव ? उत्प्रेक्ष्यते, गीतस्य-गानस्य विस्वरं-विरुद्धस्वरमिव । यथा गीतं गातुं प्रवृत्तस्य अन्तराले विरुद्धस्वरोद्भावो-रसविच्छेदकारी अनुचितस्तथाऽयमपि कथाभङ्गो अनुचित इत्यर्थः । तथा वाद्यस्य-वादित्रस्य वितालमिव-विरुद्धतालमिव, यथा वाद्ये विरुद्धश्चञ्चत्पुटादिस्तालो रसभङ्गकारित्वात् न शोभते तथाऽयमपि । तथा लासस्य नृत्यस्य अन्यथा यथावन्न्यसनाभावेन यः पादप्रचारः-चरणन्यासस्तमिव । यथा लास्येअन्यथा पादन्यासो रसविच्छेदकारित्वात् न शोभते तथाऽयमपि । तदेवं एतत्
१. प्रत्यवलोकयन्तीमित्यर्थः अनू. । २. तस्या अनू. । ३. लास्यस्य अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org