SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३०२ दमयन्ती-कथा-चम्पू: सोऽपि राजहंसः कथामुपसंहर्तुमिच्छन्निमं श्लोकमुच्चारयांचकार । एतच्च हंसोक्तं सर्वमाकर्ण्य दमयन्ती चिन्तयति-अहो-इति आश्चर्ये, स्नेहवान्स्नेहल: आर्द्रहृदय:-स्निग्धचित्तः खलु-निश्चितमसौ महानुभावः । तत्-तस्माद्धेतोः सर्वथासर्वप्रकारेण अस्माकं प्रीतिपात्रं-प्रेमभाजनं भवितुमर्हति ? यः स्नेहलो भवति तेनैव सह स्नेहः क्रियते, नान्येन, इति अवधारयन्ती-मनसा आकलयन्ती दमयन्ती पुनः-भूय पप्रच्छ। हुं हंस-हुं इति अव्ययं प्रश्ने, हे हंस ! ततस्ततः किं जातम् ? इति प्रश्ने कृते सोऽपि-नलकथावक्ता हंस: कथामुपसंहर्तु-समापयितुमिच्छन् इमं श्लोकं-पद्यं उच्चारयाञ्चकार उच्चचार । 'सुन्दरोदरि, ततश्च किमपि परिजनन स्वेन तैस्तैर्विनोदैः, पितृविरहविषादं सोऽपि विस्मार्यमाणः । गमयति परिवर्तं वासराणामिदानी, हरचरणसरोजद्वन्द्वदत्तावधानः ॥ ३२ ॥ हे सुन्दरोदरि !-क्षमोदरि ! ततश्च-ततोऽनन्तरम् इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां चतुर्थ उच्छ्वासः समाप्तः ॥ किमपीति । सोऽपि-नलः पितविरहे यो विषादः-मनःपीडां तं स्वेन-स्वकीयेन परिजनेन तैस्तैविनोदैः-गीतसुभाषितादिकौतुकेः किमपि-किञ्चिद् विस्मार्यमाण:-तदवधानात् च्याव्यमानः सन् इदानीं वास्राणां परिवर्त-परिवर्तनं अतिक्रमणं गमयति-प्रापयति, दिनानि अतिक्रामयतीत्यर्थः । किम्भूतः ? हरचरणसरोजद्वन्द्वे-शम्भुपादपद्मयुग्मे दत्तं अवधानंचित्रैकण्यं येन स तथाविधः, भगवच्चरणसेवाविहितचित्त इत्यर्थः ॥ ३२ ॥ इति वाचनाचार्यवर्यश्रीप्रमोदमाणिक्यगणिशिष्यश्रीजयसोमगणितच्छिाष्यपण्डितश्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचितश्री दमयन्तीकथाविवृतौ चतुर्थ उच्छ्वासः समाप्तः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy