________________
३०१
चतुर्थ उछ्वास:
सालङ्कायन इत्येवं वनाय प्रवृत्ते सति । किम्भूते सालङ्कायने ? भुजायामेन - बाहुदैर्येण निर्जितः साल:-सर्जतरुर्येन स तस्मिन् प्रलम्बबाहावित्यर्थः । नलः पतन्त: - गलन्तो बहला:- निविडा ये बाष्पबिन्दुसंदोहा :- अश्रुजलप्रवाहास्तैर्वक्षसि विधीयमान:-क्रियमाणो हारो येन स ईदृग्विधो हा तातेति ब्रुवन् लोचने तं दिवसं न उद्द्मीलयत्-नोद्घाटयामास । किम्भूतो नलः ? उत्प्रेक्ष्यते, शुष्यत् रविकरैः शोषं प्राप्नुवत् यत् सरः- सलिलं तत्र यः सन्ताप:-औष्ण्यं तेन वेपितं - कम्पितं अङ्गं शरीरं यस्य ईदृग्विधो बालमत्स्य इव । यथा बालमत्स्यः शुष्यत् सरसि वेपिताङ्गस्तिष्ठति तथाऽयमपि । पुनरुत्प्रेक्ष्यते, वियुज्यमानःवियोगमासादयन् यूथपति: - यूथनाथो यस्मात् ईदृश: करिकलभ इव - हस्तिपोत इव ? यथा यूथनाथात् परिभ्रष्टः करिकलभो दुःखी भवति तथाऽयमपि ।
महाराज-महामन्त्रिवियोगाद्दुःखमनुभवन् केवलममन्दः-अनल्पो यो मन्युद्गारःदैन्यवचनोच्चारस्तेन गद्गदया - अव्यक्ताक्षरया गिरा पुनः पुनः इमं श्लोकमपठत् ।
तत्तातस्य `कृतादरस्य रभसादाह्वाननं दूरतस्तच्चाङ्के विनिवेश्य बाहुयुगलेनाश्लिष्य संभाषणम् । ताम्बूलं च तदर्धचर्वितमतिप्रेम्णा मुखेनार्पितं, पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्यसे ॥ ३१ ॥
तत्तातेति । तातस्य॑ कृतादरस्य - दत्तबहुमानस्य दूरतः - दवीयोदेशात् रभसात्-वेगात् तत् आह्वाननं हे तात! इत्यादिना शब्देन आकारणम् । च- पुनः अङ्के - उत्सङ्गे विनिवेश्य - संस्थाप्य बाहुयुगलेन आश्लिष्य-आलिङ्य तत्संभाषणं-मधुरैर्वचनैर्वादनम्। च-पुनः अतिप्रेम्णा-अतिस्नेहेन अर्द्धचर्वितं-अर्द्धास्वादितं मुखेन-स्वीयवक्त्रेण अर्पितं दत्तं तत्ताम्बूलं स्मृत्वा हे पाषाणोपम !पाषाणवत्कठिन ! हे कृतघ्न ! - दुर्जनहृदय ! हा इति विषादे त्वं किं न दीर्यसे-किं न द्विदलीभवसि ? "कर्म्म कर्त्तरि यक्" । पूगपत्रचूर्णसंयोगस्ताम्बूलम् ||३१||
एतच्चाकर्ण्य २ दमयन्ती चिन्तितवती - अहो, स्नेहवानार्द्र हृदयः खल्वसौ महानुभावः । तत्सर्वथा स्मत्प्रीतिपात्रं भवितुमर्हति' इत्यवधारयन्ती
पुनः पप्रच्छ ।
'हुं हंस,
Jain Education International
१४
ततस्ततः 1
१. यत् नास्ति अनू. । २. पुत्र अनू. ।
For Personal & Private Use Only
www.jainelibrary.org