________________
दमयन्ती - कथा - चम्पू:
२९८
पुनः किम्भूते ? मृदु: - मधुरो यो मङ्गलोद्गार:-मङ्गलवाक्योच्चारस्तेन मुखर:वाचालस्तस्मिन् । स-नलराज्याभिषेकदिवस ः राज्ञ: - वीरसेनस्य कृतकृत्यतां-आत्मनः सफलतां मन्यमानस्य-जानतो अतिक्रान्तवान् जगाम । अद्याऽहं कृतकृत्यो जातो यदेतस्य नलस्य राज्याभिषेकं कृतवान् इत्येवं चिन्तयतस्तद्दिनं अयासीत् । किम्भूतस्य राज्ञ: ? उत्प्रेक्ष्यते, सम्प्राप्तं स्वर्गसुखं येन तस्येव यद्वा भुक्तं अशेषं समस्तं भुवनं - भूमण्डलं येन तथाविधस्येव, अथवा आस्वादित:- पीतो अमृतरसो येन तथाविधस्येव यद्वा अनुभुक्त:अनुभूतः परमानन्दः-सुखोत्कर्षो येन तथाविधस्येव, एतावता तस्य वाचामगोचरं सुखमभूदित्यर्थः ।
एवमतिक्रामत्सु केषुचिद्वासरेषु', जरठीभूते महोत्सवव्यतिकरे, गतवति यथायथ मामन्त्रितायात समस्तसामन्तलोके, यौवराज्यरञ्जिते च परितः परिजने जनेश्वरो रिपुपयोधि वडवानलं नलमाबभाषे ।
एवं - अमुना प्रकारेण केषुचिद् वासरेषु - दिवसेषु अतिक्रामत्सु - गच्छत्सु सत्सु । तथा महोत्सवस्य-राज्याभिषेकमहस्य यो व्यतिकरः - सम्पर्कस्तस्मिन् जरठीभूते - चिरकालीने जाते सति । तथा स्वं स्वं पन्थानमनतिक्रम्य यथायथं येन येन मार्गेण आयातस्तं तं मार्ग प्रतिपूर्वमामन्त्रित:-आहूतः पश्चादायातः इत्यामन्त्रितायातस्तथाविधो यः समस्तः सामन्तलोक:-मण्डलेश्वरसमूहस्तस्मिन् गतवति - गते सति । तथा चोक्तं रघुवृत्तौ - " त्रिचतुराणां मण्डलानामीश्वराः सामन्ताः' [ ] इति । च पुनः परिजने - सेवकादिलोके परितः समन्तात् गतवति सति । किम्भूते ? यौवराज्येन - युवराजभावेन रञ्जित: - आनन्दितो यौवराज्यरञ्जितस्तस्मिन् । जनेश्वरः - वीरसेनो रिपव एव पयोधि:अब्धिस्तत्र शोषणाय वडवानल इव वाडवाग्निरिव यः स तथा तं नलं आबभाषे उवाच ।
-
'तात ! किमपि ब्रूमो यदि न खिद्यसे । संप्रति सख्यं श्रेयस्करमस्माकमैणम्, न स्त्रैणम् । आभरणाय योग्या जटाभाराः, न हारा: " । साहाय्याय' साधवो बुधाः, न बान्धवाः । शयनायोचिता कुशपूलिका, न तूलिका । क्रीडायै वरा १० वेगवन्तो निर्झरप्रवाहाः न वाहाः । प्रार्थनीयाश्च हरप्रसादाः, न प्रासादा: ।
1
तदायुष्मन्नेष दृष्टोऽस्यापृष्टोऽस्याश्लिष्टोऽसि क्षमितोऽसि दुरुक्तमुक्तः ११ इत्यभिधायोत्सङ्गमारोप्य च तत्कालगलद्बहलबाष्पाम्बुप्लवप्ला
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org