SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उद्यासः २९७ इत्याशास्य विश्रान्तायां वियद्वाचि स्थित्वा च किंचित्कृतोचितापचितिषु गतेषु क्षणादन्तर्धानं मुनिषु 'समुच्छ्रीयन्तां वैजयन्त्यः, बध्यन्तां तोरणानि, सिच्यतां चन्दनाम्भोभिः पन्थानः, मण्डयन्तां मसृणमुक्ताफलक्षोदरावलीभिः प्राङ्गणानि, क्रियन्तां कुसुमप्रकरभाञ्जि चत्वराणि, पूज्यन्तां द्विजन्मानो देवाश्च', दीयन्तां दानानि, गीयन्तां मङ्गलानि, विसृज्यन्तां वैरिबन्द्यः, मुच्यन्तां पक्षिणोऽपि२ पञ्जरेभ्यः' इति श्रूयमाणेषु परितः परिजनालापेषु लास्योन्मादिनि मृदुमङ्गलोद्गारमुखरे संचरति पुरपथेषु पौरनारीजने स दिवसः संप्राप्तस्वर्गसुखस्येव भुक्ताशेषभुवनस्येवास्वादितामृतरसस्येवानुभुक्त परमानन्दस्येव राज्ञः कृतकृत्यतां मन्यमानस्यातिक्रान्तवान् । इति-अमुना प्रकारेण आशास्य-आशीर्वचनमुक्त्वा वियद्वाचि-गगनवाण्यां विश्रान्तायां-उपरतायां सत्यां तथा किञ्चित् कालं स्थित्वा च क्षणादेव मुनिषु अन्तर्धानंअदृश्यीभावं गतेषु सत्सु । किम्भूतेषु मुनिषु । कृता-राज्ञा विहिता उचिता-मुनिजनयोग्या अपचितिः-पूजा येषां ते कृतोचितापचितयस्तेषु । तथा इति-अमुना प्रकारेण परित:समन्तात् परिजनानां-परिच्छदलोकानां आलापेषु-वचनेषु श्रूयमाणेषु सत्सु । इतीति किम् ? केचित् परिजनाः इत्थं वदन्ति यदद्य वैजयन्त्यः पताकाः समुच्छ्रीयन्तां-वंशाग्रेषु न्यस्यताम् । तथा केचिद् वदन्ति-तोरणानि-वन्दनमालाः बध्यन्तां-रच्यन्ताम् । “बुधैर्वन्दनमाला च तोरणं परिकीर्त्यते" [२।३०१] इति हलायुधः । तथा चन्दनाम्भोभिः-गोतीर्थजलैः पन्थान:- मार्गाः सिच्यन्तां-आर्दीक्रियन्ताम् । तथा मसृणः-सुकुमारो मुक्ताफलानांमौक्तिकानां यः क्षोद:-चूर्णं तेन रङ्गः-रञ्जनं धवलीकरणं तस्य आवलयः-पंक्तयः स्थाने स्थाने धवलनमित्यर्थस्ताभिः, प्राङ्गणानि-अजिराणि मण्डयन्तां-भूष्यन्ताम्, मुक्ताक्षोदेनाङ्गणानि धवलीक्रियन्तामित्यर्थः । तथा केचिदेवं वदन्ति-चत्वराणि-संस्कृताभूमी: पन्थांश्लेषान् वा कुसुमानां प्रकर:-विप्रकरणं तं भजन्ति यानि तानि तथा क्रियन्तां, पुष्पोपचितानि विधीयन्तामित्यर्थः। तथा द्विजन्मान:-ब्राह्मणा देवाः तांश्चः पूज्यन्तांअय॑न्ताम् । तथा दानानि दीयन्ताम् । तथा मङ्गलानि-मङ्गलवाक्यानि गीयन्तांरागवद्ध्वनिना उच्चार्यन्ताम् । तथा वैरिणां या बन्धः-हठाद् गृहीताः स्त्रियो बलवतो हस्ते क्षिप्ता राजपुत्रादयश्च ता विसृज्यन्तां-उच्छृखल्यन्ताम् । तथा पञ्जरेभ्यः-वीतंसेभ्यः पक्षिणोऽपि मुच्यन्ताम् । तथा पौरनारीजने पुरपथेषु-नगरवर्त्मसु सञ्चरति-परिभ्रमति सति। किम्भूते पौरवधूलोके ? लास्येन-नृत्येन उन्माद्यति-हष्यतीत्येवंशीलो लास्योन्मादी तस्मिन् । १. देवालांश्च अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy