________________
२९६
दमयन्ती-कथा-चम्पूः दिश इति । दिश:-आशाः प्रसेदुः-विमला जाताः, तथा मरुद्-वायुः सुरभिःसुगन्धिर्ववौ-वाति स्म, तथा सुरमुक्ता पुष्पवृष्टयो दिवः-व्योम्नो निपेतुः-पतिताः, तथा कृतोऽभिषेक:-अभिषेचनं यस्य स तस्य नलस्य अनाहता अपि-अताडिता अपि दुन्दुभयःभेर्यः निस्वनान्-ध्वनीन् चक़िरे-विदधिरे । अवादिता अपि भेर्यो दध्वनुरित्यर्थः ॥२८॥ अन्तरिक्षे च कोऽप्यदृश्यमान एवाशी: श्लोकद्वयमपठत् ॥
अहीनां मालिकां बिभ्रत्तथापीताम्बरं वपुः ।
हरो हरिश्च भूपेन्द्र' करोतु तव मङ्गलम् ॥ २९ ॥ अपि च
लीलया मण्डलीकृत्य भुजंगान्धारयन्हरः ।
देयाद्देवो वराहश्च तुभ्यमभ्यधिकां श्रियम् ॥ ३० ॥ अन्तरिक्षे च-आकाशे कोऽपि अदृश्यमान एव-अनवलोक्यमान एव आशिषा सम्बद्धं श्लोकद्वयं अपठत्- अवादीत् । तद्यथा
अहीनामिति । हे भूपेन्द्र ! हरो हरिश्च तव मङ्गलं कल्याणं करोतु । किं कुर्वन् शिवः ? अहीनां-सर्पाणां मालिकां-स्रजं तथा-तेन प्रकारेण इताम्बरं-ताण्डवादिष्वतिविततमूत्तित्वात् व्याप्ताकाशं न केवलं व्याप्तपृथ्वीकं किन्तु इताम्बरमपीत्यर्थ । अष्टमूतिभगवान् यत्प्रल्हण: "उर्वीसमीरणयजमानजलानलार्कसोमाम्बरादिभिः'' [ ] इति । अथवा पराचीनावस्थायां दिगम्बरात्' इताम्बरं-गतवस्त्रम् । अत्र पक्षे, अपिः-समुच्चये । यदि वा आ-समन्तात् पीतं-ग्रस्तं अतिवितततया छन्नमम्बरं-आकाशं येन तदापीताम्बरं, तथाविधं वपुः-शरीरं बिभ्रन्-धारयन् । हरिश्च-विष्णुर्वनमालीति ख्यातत्वात्, अहीनांपूर्णामेव मालिकां तथा पीताम्बरं-हारिद्रवसनं वपुबिभ्रत् ॥ २९ ।।
अपि च-पुन:
लीलयेति । हरः देवो वराहश्च-देवस्तुभ्यं अभ्यधिकां-अतिशायिनीं श्रियं-लक्ष्मी देयात्-ददातु । किम्भूतो हरः ? लीलया-अवज्ञया भुजङ्गान्-सर्पान् मण्डलीकृत्यवलयाकारान् विधाय धारयत्-बिभ्रत् । वराहस्तु भुजं-बाहुं मण्डलीकृत्य-वलयीकृत्य गांभुवं धारयन् । अत्र वराह इति नरवराहमूत्तिर्नरसिंहवत् ॥ ३० ॥
१. दिगम्बरत्वात् अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org