________________
२९५
चतुर्थ उच्छ्वासः
तस्मै व्यापारित:-नियोजित: करपल्लवो येन तत्तथाविधं सत् अस्य नलस्य अग्रे विनयं -
सेवां अदर्शयत् ।
मुनयोऽपि चतुर्णां वेदानां समस्ता ये मन्त्रास्तान् उच्चारयाञ्चक्रुः- अवादिषुः, उत्थाय-आसनानि मुक्त्वा अक्षतान्-लाजान् गृहीत्वा अस्य नलस्य शिरसि विकिरन्त:विक्षिपन्तः पुनरिदमवोचन् ।
याः स्कन्दस्य जगाद तारकजये देवः स्वयंभूः स्वयं, स्वःसाम्राज्यमहोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः । ताभिस्तेऽद्य विरिञ्चिवक्त्रसरसीहंसीभिराशास्महे, वैदीभिर्वसुधाविवाहसमये मन्त्रोक्तिभिर्मङ्गलम् ॥ २७ ॥
याः स्कन्दस्येति । हे नृप ! ते तव वसुधाविवाहसमये राज्याभिषेकसमये अद्य ताभिर्वैदीभि:-वेदसम्बन्धिनीभिः मन्त्रोक्तिभिः - मन्त्रवाक्यैर्मङ्गलमाशास्महे- मङ्गलाशिषं दद्महे । ताभिरिति काभिः ? या मन्त्रोक्तीर्देवः स्वयम्भूः - ब्रह्मा स्कन्दस्य - गुहस्य तारदैत्यस्य जये स्वयं जगाद-उवाच । अपि च- पुनः या मन्त्रोक्ती: शचीकान्तस्य - इन्द्रस्य स्व:- साम्राजस्य महोत्सवे-स्वर्गराज्याभिषेके वाचस्पति: - बृहस्पतिर्जगाद । किम्भूताभिर्मन्त्रोक्तिभि: ? विरिञ्चे:ब्रह्मणो या वक्त्रसरसी - आननमहासरस्तस्यां हंस्य इव यास्तास्ताभिः । यथा सरस्यां हंस्यो विलसन्ति तथा ब्रह्मवक्त्रेषु मन्त्रोक्तय इति । सरसीति "षिद्गौरादिम्यश्च" [पा० सू० ४|१|४] इति सर:शब्दस्य गौरादिपाठात् ङीप् । “महान्ति सरांसि सरस्यः' [ ] इति जिनेन्द्रबुद्धिः । सरसीशब्दे पिप्पलादित्वान्महत्त्वे स्त्रीप्रत्यय इति केचित् ? अमरसिंहस्तु “कासारः सरसी सरः" [१।१०।२८ ] इति निर्विशेषमूचे ॥२७॥
""
अन्यदपि तत्र दिवसे सुभ्रु समाकर्ण्यतां यदद्भुतमभूत् । दिशः प्रसेदुः सुरभिर्ववौ मरुद्दिवो निपेतुः सुरपुष्पवृष्टयः । कृताभिषेकस्य नलस्य निस्वनाननाहता दुन्दुभयोऽपि चक्रिरे ॥२८॥
हे सुभ्रु ! दमयन्ति ! तत्र दिवसे अन्यदपि - अस्माद्व्यतिरिक्तमपि यदद्भुतमभूत् तत्समाकर्ण्यतां-श्रूयताम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org