SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ २९४ दमयन्ती-कथा-चम्पू: नूनं-निश्चितं अयं-नलो अस्मद्गृहे हरिहरहिरण्यगर्भाणां-विष्णुशम्भुवेधसां मध्ये एकतमः-अन्यतमो हरिर्हरो वेधा वा कोऽपि अवतीर्णो भविष्यति । यत: कायं शिक्षाक्रमःसालङ्कायनोक्तशिक्षापरिपाटी । तथा अस्माकं आकस्मिकी-अकाण्ड एवोत्पन्ना अस्य यूनःतरुणस्य अभिषेकाय बुद्धिः क्व ? च-पुन: अनुकूलकालस्य-सन्मुहूर्तयोगस्य सम्पत्तिः क्व? तथा समस्तानि अभिषेकोपकरणानि-तीर्थजलौषध्यादीनि पाण्योर्येषां ते ईदृग्विधा अमी महामुनयः-ब्रह्मर्षयः क्व च । घटितं-योजितं दुर्घट-घटयितुमशक्यं शिक्षाप्रक्रमादिलक्षणं येन तस्मै वेधसे सर्वथा नमोऽस्तु । यस्य-वेधसो अयं-शिक्षाप्रक्रमादिरूप एवमिति-एवंविधोऽद्भुतो व्यापारः, इत्यवधारयन् मनसि आकलयन्-उत्थाय तानि ऋषिवितीर्णानि तीर्थोदकानि गृहीत्वा, तथा कनककुम्भेषु कृत्वा-स्वीयस्वर्णघटेषु निक्षिप्य तत्काले-अभिषेकसमये भवस्तात्कालिक:तत्समयोत्थ आस्फालितमृदङ्गझल्लरीणां-वादितमुरजझर्झरीणां यो रवस्तेन रभसात्-हर्षात् उल्लासीनि-उत्प्लवमानानि यानि विलासिनीवृन्दानि-कामिनीसमूहास्तैरानन्द्यमानः-हृष्यमाणः तात्कालिक इति अध्यात्मादित्वाद् ठञ् । [पा० सू० वार्तिक] । तथा मङ्गलोद्गारेणमङ्गलवाक्योच्चारेण मुखरः-वाचालो यः परिजनस्तेन परिवृतः सन् राजा-तात एव सालङ्कायनेन मन्त्रिणा सह सहस्रं समाः-सहस्रवर्षाणि यावत् राज्यमनुपालयतु इति अभिदधानं-वदन्तं अनिच्छन्तमपि-अनीहमानमपि नलं बलाद्-हठाद् अभिषेकपदेस्नानपीठे निवेश्य-संस्थाष्य स्वयमेव अभिषेकं-अभिषेचनं अकरोत् । तथा अभिषेकानन्तरं मङ्गलार्थे ये आभरणवाससी-अलङ्कारवस्त्रे ते परिधाप्य चपुनः सिंहासनं-नृपासनमारोप्य-अवस्थाप्य पुत्रप्रेम्णा-सुतस्नेहेन सिंहासनोपविष्टस्य पुत्रस्य पुरः स्थित्वा क्षणं-मुहूर्तमेकं यावत् प्रातिहार्य-प्रतीहारकत्वं, दण्डधरत्वं अन्वतिष्ठत्-चकार । __सालङ्कायनोऽपि अतिस्नेहेन-अतिप्रेम्णा अस्य-नलस्योपरि आपाण्डुरं-समन्ताद्धवलं आतपत्रं अधारयत्-बभार । किम्भूतम् ? लम्बित:-प्रान्ते मालावल्लम्बायमानीकृतो मुक्ताकलाप:-मौक्तिकसमूहो यस्य तत् । पुनः किम्भूतम् । कनकस्य दण्ड:-यष्टिर्यस्य तत्तथाविधं । उत्प्रेक्ष्यते, आस्रवन्ती-गलन्ती सुधाधारा-पीयूषप्रवाहो यस्य तत्, तथा कनकगिरेःमेरोः शिखरे स्थितं ईदृग्विधं इन्दुमण्डलमिव-चन्द्रबिम्बमिव । छत्रस्य चन्द्रबिम्बं, लम्बितमुक्ताकलापस्य सुधाधारा, कनकदण्डस्य च कनकगिरिशिखरमुपमानम् । ___ सामन्तचक्रं च-मण्डलेश्वरपटलं चलन्ति-वीजनाय प्रवर्तितमानत्वात् कम्पमानानि चामीकरण-स्वर्णेन चारूणि-मनोज्ञानि यानि चामराणि-प्रकीर्णकानि तेषां चः-कलाप:-वृन्दं १. अभिधानं अनू. । २. प्रवर्तितत्वात् अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy