SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उछ्वासः राजा तु तत्कालमुन्मीलद्बहल'पुलकाङ्करकोरकितकायः २ किमप्यद्भुतरसेनावेशित इव विधूय शिरं ३ चिन्तयाञ्चकार । 'नूनमय 'मस्मद्गृहे हरिहरब्रह्मणामेकतमः ५ कोऽप्यवतीर्णो भविष्यति । यतः । क्वायं शिक्षाक्रम:, क्वेयमस्माकमाकस्मिकी यूनो ऽस्या - भिषेकाय बुद्धिः क्व चानुकूलकालसंपत्ति: ', क्व चामी समस्ताभिषेकोपकरणपाणयो महामुनयः । " २९३ सर्वथा नमोऽस्तु घटितदुर्घटाय वेधसे । यस्यायमेवमद्भुतो व्यापारः, इत्यवधारयन्नुत्थाय गृहीत्वा तानि तीर्थोदकानि कृत्वा कनककुम्भेषु तात्कालिकास्फालितमृदङ्गझल्लरीरवरभसोल्लासि' विलासिनीवृन्दैरानन्द्यमानो मङ्गलोद्गारमुखरपरिजनपरिवृतः सह सालङ्कायनेन 'सहस्त्रं समास्तात एवानुपालयतु राज्यम्' इत्यभिदधानमनिच्छन्तमपि नलं बला १० न्निवेश्याभिषेकपट्टे स्वयमेवाभिषेकमकरोत् । परिधाप्य च मङ्गलाभरणवाससी सिंहासनमारोप्य पुत्रप्रेम्णा पुरः स्थित्वा क्षणं ११ प्रातिहार्य १ २ मन्वतिष्ठत् । सालङ्कायनोऽप्यतिस्नेहेनास्योपरिलम्बित मुक्ताकलापमास्रवत्सुधाधारं कनकगिरिशिखरस्थित १४ मिन्दुमण्डलमिव कनकदण्डमापाण्डुरमातपत्रमधारयत् । सामन्तचक्रं १५ च चलच्चामीकरचारुचामरकलापव्यापृतकरपल्लवमस्याग्रे विनयमदर्शयत् १६ । मुनयोऽप्युच्चारयांचक्रुश्चतुर्वेदसमस्तमन्त्रान् १७ । उत्थाय च गृहीत्वा - क्षताञ्शरसि विकिरन्तो ऽस्य पुनरिदमवोचन् १८ । राजा तु वीरसेनः तत्कालं-ब्रह्मर्षिदर्शितजलविलोकनसमकालमेव उन्मीलन्तःनिर्गच्छन्तो बहला:-निविडा ये पुलका कुरा: - रोमाञ्चप्ररोहास्तैः कोरकितः-कुड्मलितः काय:-शरीरं यस्य स तथाविधः, किमपि वक्तुमशक्येन अद्भुतरसेन- आश्चर्यरसेन आवेशित इव-ग्रहगृहीत इव शिरो विधूय चिरं चिरंकालं चिन्तयाञ्चकार - विचारयामास । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy