SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ २९२ दमयन्ती-कथा-चम्पू: इदमिति । हे राजन् ! इदं मन्दाकिन्या-गङ्गायाः सलिलं । किम्भूतं ? अवगाहाय जलक्रीडार्थमागता या मरुत्पुरन्ध्रयः-देवनार्यस्तासां पीनस्तनशिखरेण-पीवरपयोधराग्रेण भग्न उर्मिवलयः-वीचिमण्डली यस्य तत् । हे नृप ! च-पुनः इदं कालिन्द्या:-यमुनायाः पय:पानीयम् । किम्भूतं ? प्रविकसितानि-विहसितानि तथा' तीरद्रुमलताभ्यः पतन्ति च यानि पुष्पाणि तैः कृत्वा अन्तः-मध्ये सुरभिताः-सुवासितास्तरङ्गा यस्य तत् तथाविधम् ।। २४ ।। इदमिति । हे नृप ! इदमपि गोदावर्याः-गोदानाम्न्याः सरित:-जलं । किम्भूतम् ? त्रिनयनजटाखण्डात्-शम्भुजटाजूटाः तस्मात् गलितं-पतितम् । पुनः किम्भूतम् ? मज्जनविधौ-स्नानविधाने महाराष्ट्रीणां-महाराष्ट्रदेशीयस्त्रीणां नेत्रैः कृतानि कुवलयानि नीलोत्पलानि यत्र तत्, तत्र ता मज्जन्ति, ततस्तासां नेत्राणि नीलोत्पलभ्रान्ति जनयन्तीति भावः । च-पुनः इदं नर्मदाया:-नार्मदमपि जलम् । किम्भूतं ? प्रेङ खन्त:-दीप्यमाना ये मुनिजनास्तैविकीर्णानि-विक्षिप्तानि अर्घार्थं कमलानि यत्र तत् । यद्वा, प्रेङ्खदिति भिन्न जलविशेषणम् । पुनः किम्भूतम् ? विन्ध्यस्कन्धःस्थले-विन्ध्याचलमध्यभागे विलुलितंक्षुभितं तत्प्रदेशस्य स्थपुटत्वात् ॥ २५ ॥ इतश्च तदेतत्पुण्यानां परममवधिं प्राप्तमुदधेःपयः प्रक्षाल्याघ्री शयनसमये शार्ङ्गधनुषः । विहारायोन्मज्जद्वरुणवनितावृन्दवदनैः, क्षणं यत्प्रोत्फुल्ल नवकलमखण्डश्रियमधात् ॥ २६ ॥ इतश्चेति । हे नृप ! इत:-अस्मिन् प्रदेशे वीक्षस्व तदेतदिति । शयनसमये-युगान्ते शार्ङ्गधनुषः-विष्णोः सम्बन्धिनौ अंही-चरणौ प्रक्षाल्य पुण्यानां-पवित्राणां भध्ये परममवधिं परमां सीमानं प्राप्तं-गतं, एतस्मादधिकं पवित्रं न किञ्चिदस्तीत्यर्थः । उदधेः-समुद्रस्य तदेतत् पयो वर्तते, यत्पयःविहाराय-क्रीडार्थं उन्मज्जन्ति-उच्चैर्भवन्ति यानि वरुणवनितावृन्दवदनानि-पाशभृल्ललनावलिवक्त्राणि तैः कृत्वा क्षणं यावत् प्रोत्फुल्लन्नवकमलखण्डश्रियं-विकसदभ्भोजखण्डशोभां अधात्-दधौ । मन्ये, वरुणवधूनाममूनि मुखानि न भवन्ति किन्तु विकसन्त्यम्भोजान्यमुनि वर्तन्त इति ॥२६॥ १. 'तथा' स्थाने 'यानि' अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy