SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उछ्वासः २९९ विते१२ वक्षसि निधाय परिष्वज्य च पुनः पुनः पुलककोरकित१३भुजलताभ्यामन्तर्मन्युभरनिरुध्यमानोत्तरमजस्रमास्रवदश्रुक्लिन्नकपोलमाविर्भवन्मोहमूर्छान्धकारकुञ्चित१४लोचनमिममाघ्राय मूनि वनाय वनिता-सहायः१५ प्रतस्थे । हे नल ! किमपि वयं ब्रूमो यदि खिद्यसे-न मनस्तापं दधासि । तद्यथा-सम्प्रतिअधुना अस्माकं एणानां-मृगाणामिदं एणं सख्यं-मैत्री श्रेयस्करं-कल्याणकारि, न स्त्रैणं सख्यम् । स्त्रीणामिदं स्त्रैणं "स्त्रीपुंसाभ्यां नस्नौ " [पा० सू० ४।१।८७] तथा अस्माकं आभरणाय-अलङ्करणाय योग्या जटाभाराः जटा-सत्कवीवधाः, न हारा:-मुक्तालता योग्याः । तथा अस्माकं साहाय्याय-आलम्बनाय बुधाः-पण्डिताः साधवः-भद्राः, न बान्धवाःस्वजनाः साधवः । तथा अस्माकं शयनाय-स्वापाय कुशपूलिका-दर्भपूलिका उचिता, न तूलिका-तूलशय्या उचिता । तथा अस्माकं क्रीडायै-केलये वेगवन्तः-द्रुतगामिनो निर्झरप्रवाहा वरा:-प्रधानाः, न वाहा:-अश्वा वराः । तथा अस्माकं हरे:-विष्णोः प्रसादाःअनुग्रहाः प्रार्थनीया:-अभिलषणीयाः, न प्रासादाः-धवलगृहाणि अभिलषणीयाः । तत्-इति उपसंहारे, तस्मात् हे आयुष्मन् !-चिरञ्जीविन् ! एष त्वं दृष्टोऽसिअवलोकितोसि, तथा एष त्वं आपृष्टोसि यदहं वनाय यामि इत्येवं, तथा एष त्वं आश्लिष्टोसि-आलिङ्गितोसि, तथा एष त्वं दुरुक्तं-दुर्वचनमुक्तः क्षमितोसि-नीरोषितोसि, इतीमं नलं प्रत्यभिधाय-उक्त्वा, च-पुनः उत्सङ्ग-स्वीयक्रोडमारोप्य-संस्थाप्य, च-पुनः तस्मिन् काले-नलस्योत्सङ्गारोपणसमये गलन्-क्षरम् बहलः-निविडो यो बाष्पाम्बुप्लव:अश्रुजलप्रवाहस्तेन प्लाविते-स्नपिते वक्षसि-निधाय, च-पुनः पुलकै:-रोमाञ्चैः कोरकितेकुड्मलिते ये भुजलते ताभ्यां पुनः पुनः परिष्वज्य-आश्लिष्य पुनर्मूनि आघ्राय वनितासहायः-स्त्रीसखो वनाय प्रतस्थे । गुरवः पुत्रं मूनि जिघ्रन्तीत्याचारः । किम्भूतमिमम् ? अन्त:-मध्ये मन्युभरेण दैन्यातिशयेन निरुध्यमानं-निषेध्यमानं° उत्तरं-प्रतिवचो यस्य स तं, तथा अजस्रं-निरन्तरं आस्रवन्ति-क्षरन्ति यानि अश्रूणि तैः क्लिन्नौ-आद्रौ कपोलौ यस्य स तं, तथा आविर्भवन्ती-समुल्लसन्ती या मोहमूर्छा-मूर्छाधिक्यं सैव अन्धकारं तेन आकुञ्चिते-ईषत् संकुचिते लोचने यस्य स तथा तम् ।। प्रस्थिते च तस्मिन्परिहृतराज्ये राजनि, रजनीवियज्यमानचक्रवाकीष्विव१६ कृतकरुणाक्रन्दासु प्रजासु, १ प्रतिगृहमुच्चलितेषु जरत्पौरजनेषु, 'कल्याणिन्, एष पितृप्रणयप्रणामाञ्जलि एतदस्य८ क्रमागतकर्मकारिणः १. निषिध्यमानं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy