SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ २९० दमयन्ती-कथा-चम्पू: अपि चउपरि परिमलान्धैः सस्वरं संचरद्भिमधुकरनिकुरम्बैश्चुम्ब्यमाना भरेण । अविरलमधुधारासारसंसिक्तभूमिः,, सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः ॥ २३ ॥ अपि च-पुनर्यज्जातं तदाह उपरीति । सदसि-सभायां सुरैः-देवैर्विमुक्ता पुष्पवृष्टिं प्रापतत्-पतिता । किम्भूता पुष्पवृष्टिः ? परिमलेन-आमोदेन अन्धाः-आकुलितास्तैः, तथा सस्वरं-सझङ्कारारवं यथा भवति तथा उपरि पुष्पाणामूर्ध्वं सञ्चरद्भिः-परिभ्रमद्भिः मधुकरनिकुरम्बैः-२ अलिपटलैभरण-अतिशयेन चुम्ब्यमाना-आस्वाद्यमाना । यतः किम्भूताः ? अविरला-निविडा या मधुधारा-पुष्परसपातः सैव आसारः-वेगवद्वर्षस्तेन संसिक्ता-आर्द्राकृता भूमिर्यया सा तथाविधा । अथवा भरेण-भारेण प्रापतदित्यन्वयः । “भरोऽतिशयभारयोः" [२।४५६] इत्यनेकार्थः ॥२३॥ अवतेरुश्च तत्कालमेवाम्बरतलादुल्लसद्ब्रह्मकान्तिकलापपवित्रीकृताष्टदिग्भागभूमयः सकलसागरसरित्तीर्थाम्बुपूर्णकमण्डलुमृत्कुश"कुसुमौषधिरुद्धपाणयो दर्शनादेवापनीतसमस्तकलिकल्मषाः केऽपि कुतोऽपि ब्रह्मर्षयः । सहर्षेण सविनयेन सविस्मयेन सपरिवारेण चलत्कर्णोत्पलगलद्बहल रजःपुञ्जपिञ्जरितकपोलपालिना पृथ्वीपालेन प्रणम्य कृतातिथेयाः समुचितान्यलंचक्रुरासनानि । कृतकुशलप्रश्नालापाश्च प्रस्तुतकुमाराभिषेकस्य नरपतेः स्वस्वकमण्डलुवारीणि दर्शयामासुः । अवेति । न केवलं पुष्पवृष्टिरपतत्, च-पुनः तत्कालमेव तस्मिन्नेव समये केऽपि कुतोऽपि ब्रह्मर्षयः अम्बरतलात्-नभस्तः अवतेरु:-अवतीर्णाः । किम्भूताः ? उल्लसन्उत्सर्पन् यो ब्रह्मकान्तिकलापः-तपस्तेजः समूहस्तेन पवित्रीकृताः-शुचिकृताः अष्टदिग्भागभूमयो यैस्ते तथाविधाः, अष्टस्वपि दिक्षु ब्रह्मकान्तीनां प्रसरणात् । "ब्रह्मा तु तपसि १. पुष्पवृष्टिः अनू. । २. निकुरुम्बैः अनू. । ३. अष्टसंख्या० अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy