________________
२८९
चतुर्थ उच्छ्वासः
भिषेकयोग्यमहः । केन्द्रस्थानवर्त्तिनः सर्वेऽप्युच्चग्रहाः १, पुण्यो मासः, पूर्णा तिथि:, श्लाघ्यो योग:, प्रशस्तो वारः, शुभं नक्षत्रम्, कल्याणी वेला, विधीयतां यद्विधेयम्' इत्यभिधाय स्थितेषु तेष्वनन्तरमेव सुश्रोणि !, श्रूयतां यदस्माभिः श्रुतमाश्चर्यम् ।
इति-पूर्वोक्तमभिधाय-उक्त्वा तत्कालमेव तस्मिन्नेव समये मौहूर्तिकान्-दैवज्ञान् आहूय-आकार्य आदिदेश - आदिष्टवान् । भो मौहूर्तिका: ! यौवराज्याभिषेकोत्सवाय दिवस: कथ्यतामिति ।
अथ सद्दिवसप्रश्नानन्तरं तेऽपि - दैवज्ञाः कथयामासुः - अवादिषुः । हे देव ! श्रूयतां - आकर्ण्यतां अनवद्यं-निर्दोषं अद्यभवं - अद्यतनमेव राज्याभिषेकस्य- नृपपट्टाभिषेकस्य योग्यंउचितं अहः-दिनं वर्तते । कथं ? सर्वोप्युच्चग्रहाः केन्द्रस्थानवर्तिन कण्टकावस्थिताः, तथा पुण्य:- शुभकर्मकरणार्हो मासः, उत्तरायणत्वात् । तथा पूर्णा तिथिः पञ्चम्यादिः । तथा श्लाघ्यः-प्रशंस्यो योगः शुभादिः । तथा प्रशस्तोऽभिषेकोऽर्हो वार : - बृहस्पत्यादिः । तथा शुभं नक्षत्रं पुष्यादिः । तथा कल्याणी - कल्याणकारिणी वेला - अमृतादिशुभहोरारूपा । तस्माच्छुभमद्य दिनं वर्तते, यद्विधेयं कर्त्तव्यं तद्विधीयताम् । इत्यभिधाय तेषु दैवज्ञेषु स्थितेषु-तूष्णीमाश्रितेषु सत्सु हे सुश्रोणि ! - शोभननितम्बबिम्बे अनन्तरमेव- तेषां कथनादनु यत् अस्माभिराश्चर्यं-अद्भुतं श्रुतं तत्श्रूयताम् । आश्चर्यं अद्भुतेऽर्थे निपात्यते । तद्यथा
उचितमुचितमेतद्धैर्यधाम्नां नृपाणां,
वयसि कटुनि कान्तालोचनानां तृतीये ।
इति रभसमिवास्य प्रस्तुतं श्लाघमानो ३, वियति पटुरकस्मादुत्थितस्तूर्यनादः ॥ २२ ॥
उचितमिति । धैर्यमेव धाम - तेजो येषां ते धैर्यधामानस्तेषां नृपाणां तृतीये वयसिवार्द्धके एतत्-पुत्रस्य राज्याभिषेचनं, आत्मना च वनाय गमनं उचितं उचितं भृशार्थे द्विरुक्तिः, अतिशयेन योग्यमित्यर्थः । किम्भूते तृतीये वयसि ? कान्तालोचनानां कटूनअप्रिये वल्यादिसंवलिताङ्गत्वात् तासां तत्राऽप्रीतेः । इति- अमुना प्रकारेण अस्य - वीरसेनस्य प्रस्तुतं-राज्याभिषेकवनगमनादिकं रभसं - हर्षं श्लाघमान इव स्तुवन्निव वियति-आका अकस्मात्-अकाण्ड एव पटुः - स्पष्टस्तूर्यनाद उत्थितः - उच्छलति स्म । " रभसो वेगहर्षयोः " [३|७|९५] इत्यनेकार्थः ॥ २२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org