________________
२८८
दमयन्ती-कथा-चम्पूः गच्छति । किम्भूतं मनः ? विषयेभ्यः-इन्द्रियार्थेभ्यो विमुखं-पराङ्मुखं पराङ्मुखीभूतं विषयोपभोगं नेहत इत्यर्थः, अतएव वनाय धावतीति । किम्भूतं वन्यश्वापदम् ? विषयात्जनपदात् विमुखं वनप्रियत्वात्, च-पुनः मनुष्यजन्मनि यत् क्रियते परोपकारादि तत्कृतम् । तथाहीति । तदेव दर्शयति
एताः प्राप्य परोपकारविधिना नीताः श्रियः श्लाघ्यतामापूर्वापरसिन्धुसीम्नि च नृपाः स्वाज्ञां चिरं ग्राहिताः । भूभारक्षमदोर्युगेन भवता जाता वयं पुत्रिण
स्तत्संप्रत्युचितं यदस्य वयसस्तत्कर्म कुर्मो वयम् ॥ २१ ॥ एता इति । एता:-हस्त्यश्वादिरूपाः श्रियः-लक्ष्म्यः प्राप्य परोपकारविधिनापरोपकारकरणेन श्लाघ्यतां-प्रशंसनीयतां नीताः श्रियस्ता एव प्रशंस्या याः परोपकाराय प्रवर्त्यन्तेरे । तथा च-पुनः पूर्वापरसिन्धोः सीमानं आमर्यादीकृत्य आपूर्वापरसिन्धुसीम्निपूर्वापरसमुद्रपर्यन्तं यावत् नृपाश्चिरं-चिरकालं स्वाज्ञां-स्वादेशं ग्राहिताः, सर्वेऽपि भूपाः स्वाज्ञायां प्रवर्तिता इत्यर्थः । “अत्युपाङभिः पञ्चम्यादयो द्वितीया च" इति सूत्रात् आङ्योगे सप्तम्यपि । तथा भूभारस्योद्वहने क्षम-योग्यं दोर्युगं यस्य स तेन भवता वयं पुत्रिणः-प्रशस्यपुत्रवन्तो जाताः । तदिति उपसंहारे, सम्प्रति यत् अस्य वयस:-वृद्धत्वस्य उचितं-योग्यं वनवासादि तत्कर्म वयं कुर्मः । “वर्तमान सामीप्ये वर्तमानवद्वा" [पा० सू० ३।३।१३१] इति भणनादत्र भविष्यति वर्तमाना तेन करिष्याम इति ध्येयम् । पुत्रिण इति "अत इनि ठनौ" [पा० सू० ५।२।११५] इतीनिः । स चात्र "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिनि । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ।" [पा० सू० ५।२।९४ वार्तिक] भूमनि गोमान् निन्दायां, ककुद्मती कन्याप्रशंसायां, मनस्वी नित्ययोगे, सानुमान्-गिरिः, अतिशायिनि स्तनकेशवती स्त्री, संसर्गे दण्डी, अस्तिमान् सम्पन्नः, इत्युक्तेः प्रशंसार्थो बोद्धव्यः । एतावता यथाक्रम धर्मार्थकाममोक्षाणामुपन्यासः ॥ २१ ॥
इत्यभिधाय तत्कालमेव मौहूर्तिकानाहूयादिदेश-'कथ्यतां यौवराज्याभिषेकोत्सवाय दिवसः' इति ।
अथ कथयामासुस्तेऽपि-देव, श्रूयतामनवद्यमद्यतनमेवरे राज्या
१. नास्ति अनू. । २. प्रवर्तन्ते अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org