________________
२८५
चतुर्थ उच्छ्वासः
किं चान्यत्बिभर्ति यो ह्यर्जुनवारि पौरुषं, करोति नने च न वा रिपौ रुषम् । न तेन राज्ञा सहसागराजिता, भवेन्मही किं सहसागरा जिता ॥१८॥ किञ्चान्यत्-किञ्चिदन्यदप्युच्यते
बिभर्तीति । अर्जुनमपि-पार्थमपि वृणोति-आच्छादयति वारयति वा इत्येवंशीलं निजप्रकर्षेण तच्चारित्रापह्नवकारि पौरुषं-विक्रमं यो राजा बिभर्ति-धत्ते । वा-अथवा ननेनमनशीले रिपौ-शत्रावपि रुषं-कोपं न च-नैव करोति, धर्मविजयित्वात् । तेन-राज्ञा अगैराजिता । अगराजिता-अष्टसंख्यकुलाचलालङ्कृता तथा सागरैः सह-युक्ता ससागराससमुद्रा सहसा-बलेन किं मही न जिता? किन्तु जितैवेति भावः ॥ १८ ॥ अपि च
'किं तेन जातु जातेन मातुर्यौवनहारिणा ।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा' ॥ १९ ॥ अपि च-पुनराह मन्त्री
किं तेनेति । मातुः-जनन्या यौवनं हरतीत्येवंशीलो यौवनहारी तेन-तारुण्यमुषा तेन-सुतेन जातेन-उत्पन्नेन किं-न किञ्चिदित्यर्थः । यो जातु कदापि स्वस्य वंशस्यअन्वयस्य अग्रे नारोहति-अग्रगण्यतां न यातीत्यर्थः । क इव ? ध्वज इव । यथा ध्वजो वंशस्य-वेणोरग्रे-अधिरोहं कुरुते । अत्र इवार्थे यथाशब्दः ॥ १९ ॥
एवमुक्त्वा विश्रान्तवाचि वाचस्पतिसमे मन्त्रिणि राजापि प्रेमद्रवायारे दृशा नलमवलोक्य वक्तुमारभत ।
वाचस्पतिसमे-बुद्ध्या गुरुसमाने मन्त्रिणि सालङ्कायने एवं-अमुना प्रकारेण उक्त्वा विश्रान्ता-उपरता वाक् यस्य स तस्मिन् विश्रान्तवाचि सति, तूष्णीं भजमाने सतीत्यर्थः । राजाऽपि वीरसेनोऽपि प्रेमैव द्रवः-जलं तेन आर्द्रया-स्निग्धया दृशा नलमवलोक्यनलसम्मुखं वीक्ष्य वक्तुमारभत-यतते स्म ।।
'तात, युक्तमनुयुक्तोऽसि सालङ्कायनेन । कस्यान्यस्य नियन्ति वदनारविन्दादेवंविधाः पदे पदेऽर्थसमर्था मृद्व्यो मृष्टाः श्लिष्टाश्च वाचः । १. पार्थिवमपि अनू. । २. जिता भवेत् अनू. । ३. अग्रे गण्यतां अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org