________________
२८६
दमयन्ती-कथा-चम्पू: तद्दर्शितस्तवानेन निर्वापितदेहः स्नेहः । स्वीकृतश्चासि' मनसा समस्तसाम्राज्यभारोद्वहनधुर्यतां प्रति । तेनायमेवमनुशास्ति।
युज्यते चैतत् ।
तातेति । कोमलामन्त्रणे हे तात ! सालङ्कायनेन मन्त्रिणा युक्तं -उचितं अनुयुक्तोऽसि-शिक्षितोऽसि साधूपदेशैरुपदिष्टोऽसि । एतस्मात् सालङ्कायनादन्यस्य-अपरस्य कस्य जनस्य वदनारविन्दात् एवंविधा वाचः-वाण्यो निर्यान्ति-निस्सरन्ति । किम्भूता वाचः ? विभक्त्यन्तं पदं पदे पदे अर्थेन-अभिधेयेन समर्था-युक्ता अर्थसमर्थास्तथा मृद्व्यःसुकुमारास्तथा मृष्टाः विशुद्धाः-वाग्दोषरहिताः तथा श्लिष्टा:- भङ्गश्लेषोक्तिसंगताः ।
तदिति उपसंहारे, तस्मात्तव अनेन-मन्त्रिणा शिक्षावचांसि वदता निर्वापित:शान्तीकृतो देहो येन ईदृशः स्नेहो दर्शितः । च-पुनः अनेन मन्त्रिणा मनसा कृत्वा त्वं समस्तो यः साम्राज्यभारः-राज्यभारस्तस्योद्वहने-धारणे या धुर्यता-धौरेयता तां प्रती स्वीकृतोसि-अङ्गीकृतोसि, समस्तं राज्यभारमसौ धारयिष्यतीत्येवं आकलितोसि । तेन कारणेन अयं मन्त्री एवं हितोपदेशेन अनुशास्ति-शिक्षयति, यो हि योग्यो भवति तस्यैव शिक्षा दीयत इत्यर्थः । एतत अनुशासनं च मन्त्रिण एव युज्यते-घटते । तथा हि
संग्रहं नाकुलीनस्य सर्पस्येव करोति यः ।
स एव श्लाघ्यते मन्त्री सम्यग्गारुडिको यथा ॥ २० ॥ तथा हीति-तदेव दर्शयति
संग्रहमिति । स एव मन्त्री सम्यग्गारुडिक इव श्लाघ्यते-प्रशस्यते यः सर्पस्येव दुष्टस्य अकुलीनस्य-अनभिजातस्य संग्रह-स्वीकारं न करोति । किम्भूतस्य सर्पस्य ? नाकु:-वल्मीकस्तत्र लीनस्य-प्रविष्टस्य, गारुडिको हि नाकुलीनस्य सर्वस्य संग्रहं करोतीति । कर्मणामारम्भोपाय: पुरुषद्रव्यसम्पद्देशकालविभागो विनिपातः प्रतीकारः१ कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः । गारुडिकादिविषयश्चेति योगान् मन्त्रिणावम्मान्या२ हि तुण्डिको । अत्र यथाशब्द इवार्थः ॥ २० ॥
किं च
न पश्यसि सांप्रतमिदमस्माकमतिभीरुभूपालमण्डलमिव बलि१. विनिपातप्रतीकारः अनू. । २. मन्त्रिणावमात्या अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org