________________
२८४
दमयन्ती-कथा-चम्पू: इदानीं शिक्षामभिधाय आत्मोपदेशे आदरपरं कुमारं कुर्वन् मृदुवचोभिः प्रोत्साह
यन्नाह
वत्स, मा चैवं चेतसि कृथाश्छान्दसोऽयम्। छान्दसश्च गुरुर्वक्रस्वभाव एव भवति तत्किमनेनेति । यस्माच्चतुरानन्दिपदः पुण्यश्लोको भवान् । अतोऽङ्गभावं यान्ति ते वक्रोक्तयोऽपि गुरवः । सरलतयारे लघवोऽप्यन्तरङ्गा भवन्ति । किंतु ते ह्यवसाने कुटिलतामपि दर्शयन्ति ।
__मा चैवमिति । हे वत्स ! मा चैवं वक्ष्यमाणं चेतसि कृथाः यत् छान्दसोऽयंश्रोत्रियोऽयं मन्त्री छान्दसश्च गुरु:-तत्त्वोपदेष्टा वक्र एव-अनृजुरेव भवति तत्किमनेन मन्त्रिणेति । पक्षे, छन्दस:-शास्त्रविशेषस्याऽयं छान्दसो गुरुराकारादेासविशेषो वक्र एव भवतीति । यस्मात् कारणात् भवान् पुण्यश्लोकः-पवित्रयशः तथा चतुरान्-कुशलान् आनन्दयतीत्येवंशीलं चतुरानन्दी, एवंविधं पदं राज्यलक्षणं यस्य स एवंविधः, अतो वक्रोक्तयोऽपि-वक्रवचसोगि गुरवस्ते-तव भावं-भावनां यान्ति, त्वयि भावितात्मानो भवन्तीत्यर्थः । अङ्गेति कोमलामन्त्रणे, सरलतया-एकमार्गतया लघवः-लघुवृत्ता अपि अन्तरङ्गाः-चेतोऽभिप्रेताः स्युः, परं ते अन्ते कौटिल्यमपि दर्शयन्ति-प्रकाशयन्ति । अथ च पुण्यः-श्रेयात् श्लोक:-पद्यं, तदा चत्वारि आनन्दीनि पदानि यस्य स तथाविधः, ते प्रसिद्धा गुरवो वक्राकृतयोऽङ्गभावं-अवयवत्वं यान्ति, श्लोकस्येति शेषः । सरलतया-ऋजुतया लघवो लेखाकृतयोऽपि अन्तरङ्गाः-मध्यगताः स्युः, परं ते हि-स्फुटं अवसाने-पादान्ते कुटिला अपि स्युः "वा पादान्तस्त्वसौग्वक्रः" इति वचनात् । तत्कि बहुना
तथा भव यथा तात ! त्रैलोक्योदरदर्पणे ।
विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्षसे ॥ १७ ॥ ततो हेतो : किम्बहुना-किम्बहूक्तेन
तथा भवेति । तातेति कोमलामन्त्रणे हे तात ! तथा-तेन प्रकारेण त्वं भव-न्याये प्रवर्तस्वेत्यर्थः । यथा-येन प्रकारेण तैस्तैः-अस्मदुपदिष्टैः प्रजापालनादिभिविशेषैरुपलक्षितात्मानं भुवि उषित:-पृथ्वीस्थित एव त्रैलोक्यमेव योऽसौ दर्पणस्तत्र नित्यं-अविनश्वरं ईक्षसे-पश्यसि । अन्योऽपि तैस्तैराकल्पविशेषैर्मण्डितमात्मानं दर्पणे पश्यति । ।। १७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org