SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उछ्वासः २८१ स चासौ राधात्मिका च-राधास्वरूपा राधा च कृष्णपत्नी साऽपि श्रिया एव भेदः, त्रपापरा-सलज्जा सती गुणिनो गुरून् शूरादीन् यदूनामादिपुरुषा परिहत्य परपुरुषे मुरारौ रागं-प्रीतिं बध्नाति । किम्भूते विष्णौ ? माया-त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वादिलक्षणा वा विद्यते अस्येति मायावी तस्मिन् । “अस्मायामेधास्रजो विनिः" [पा० सू० ५।२।१२१]। तथा कृतः केशिन:-अश्वरूपस्य दैत्यस्य वधो येन स तस्मिन् । तथा धूतो मन्दरनामा अगः-अद्रिर्येन स तस्मिन् ।। एवं उक्तकपटानां अनार्द्रहृदयत्वादिदोषान्वितानां स्त्रीणां विश्वासं-विस्रम्भं श्रीणां च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन् सर्वोऽपि आयुष्मान् इत्यायुष्मन् इत्यनेन सम्बोधनेनाभिहितम् । तत् इत्युपसंहारे, तस्मात् श्रेयोर्थिनां-पुण्यार्थिनां स्त्री न शरणं-न रक्षित्री, क्षयहेतुत्वात् । यतः कीदृशी ? हृदयं-चेतो हरति हृदयहरा-मोहकारिणी, एतच्च क्षये निदानमुक्तम् । पुनः किंविशिष्टा ? अतिगं-अतिशयेन बिभेतीति भी:- भीरुः स्त्रीस्वभावात्, अथवा भीर्भयहेतुत्वात् दुष्टाशयत्वात् । तथा नास्ति गौः-वाक् यस्य सः अगुस्तं जहाति अगुहा य एव मायामयं वक्तुं वेत्ति, क्षणमात्रमपि तमेवाश्रयति इत्यर्थः । अथवा गौः-धेन्वर्थः, तच्चोपलक्षणं तेन अनु अगुं-निर्धनं विहाय धनिनमेवाश्रयतीति । यदि वा नतौ-नम्रतायां गम्भीरा गौ:-वाक् यस्य स, तमपि जहातीत्यर्थः । न च भवादृशाश्चाटूनि वक्तुं प्रभविष्णवः सर्वोन्नतत्वात् । यदि वा अतिगं-अतिशयेन भियं राति-ददातीति भीरा गौर्यस्य तं अतिगम्भीरगुं जहाति, स्त्रियो हि सुकुमारोपक्रमाः । केव? गिरीन्द्रः-हिमाचलस्तस्य भूः-पृथ्वी सेव । सापि कीहशी ? अतिगम्भीरा गुहा:-पाषाणसन्धयो यस्यां सा । तदायुष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहरा श्रेयोऽर्थिनां शरणं न स्त्री श्रीश्च । श्रीश्च अश्रेयोऽथितां न शरणं-अगारं किन्तु श्रेयोऽथिनां श्रियां श्रेयोऽर्थिन एव तिष्ठन्तीत्यर्थः । किंविशिष्टा ? हृत्हारिणी तथा अयं शुभकर्म हरति, अयहरा-तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे-"पूर्वपुण्यविभवव्ययसृष्टाः सम्पदो विपद एव विमृष्टाः" [१।१३३] इति । केव? गिरीन्द्रभूरिव गिरीन्द्रात्-हिमालयाद् भवति स्मेति कृत्वा गौरीव । सा च किंविशिष्टा ? हृदये हरोऽस्या इति हृदयहरा, तथा नतिगम्भीरः-प्रणामप्रगत्भो गुह:-कार्तिकेयो यस्याः सा, तत्पुत्रत्वात् । ___ अधुना दुःस्त्रियं सर्वथा परिहार्यं साध्व्या अपि अत्यन्तविश्वासप्रतिषेधद्वारेण 'सैवेति' विषयान् काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा श्रियः ॥' [ ] १. सेवेत अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy