SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ २८० दमयन्ती-कथा-चम्पूः कारित्वात् अनलं-अग्नि उद्वेजयति-पीडयति । अर्थात् शमयितरि विवाहे गरुडवाहने आर्द्रहृदया न न भवति अपितु भवत्येवेत्यर्थः । या कालकूटद्वितीया सा कथमिव आर्द्रहृदयेति विरोधोद्भावनया अपिशब्दो भिन्नक्रमे, आर्द्रशब्दोऽत्र स्निग्धार्थः । यदि वा विवाहो विष्णुस्तेनाऽपि श्री: स्वीकृता, तत उपादेयेत्यर्थः । अपिरत्रापि भिन्नक्रमे । अस्या इति । अस्याः-श्रियाः कारणे-निमित्ते इति वाक्यत्रयेऽपि योज्यम् । मन्दरो अगः-पर्वतो अभ्रं-आकाशमन्तेऽस्येति अभ्रान्तः-व्योमावसानः सत्-शोभनः आलोकोऽस्येति सदालोकः, सम्यगस्त:-क्षिप्तः इत्यर्थः । सम्पूर्वादस्यते क्तः । यदि वा सम्यगस्तः सन् अप्सु-भ्रान्तः क्षुब्धोऽभ्रान्तः, श्लेषे वर्णलोपो न दोषाय । तथा अस्या निमित्ते भुजङ्गमण्डली-वासुकिप्रभृतिनागमण्डली अलोलनेत्रं लोलनेत्रं कृता लोलनेत्रीकृता सती धृष्टा, चापल्यमत्र मथनप्रवत्तितत्वात्, नेत्रं-मन्थान रज्जुः । तथा अस्या निमित्ते जलधिःअब्धिः पराभवं मथनलक्षणक्रियां प्राप्तः, राजकुमारेत्यामन्त्रणे । अनया-लक्ष्म्या अवष्टब्धः-आश्रितः कः-पुरुषो गुरुः-महान् वारण:-गजस्तस्य योग्यो न भवति, अपितु गजस्कन्धमारोहतीत्यर्थः । तथा अनया अवष्टब्धः को न वाजिपृष्ठंतुरगपृष्ठं नारोहति । अतः अस्याः-लक्ष्म्याः प्रसादात् कः-पुरुषो नवं-अविच्छायं चःसमुच्चये कङ्कणं-हस्तसूत्रं न प्रकटयति-प्रकाशयति । तथा अस्याः आश्रयणात् कः कण्ठे मुक्ताहारस्य-मुक्तासरस्य अवमोचनं-बन्धनं न कुरुते, अपितु सर्वोऽपि । तथा को न काञ्चनस्य-सुवर्णस्य शृङ्खलां-आभरणविशेषं न अनुभवति-न बध्नाति । को वा अनया अवष्टब्धः अगुरौ-अगौरवार्हे नीचे अन्धीभूतः-निविवेकः सन् अञ्चनां-पूजा करोति, अपितु सविवेकः सन् गुरूनेव पूजयति । को वै-स्फुटं लक्षं-शतसहस्रं न आगच्छाति-न प्राप्तोति' । तथा कस्य न परा-उत्कृष्टार भूति:-उन्नतिर्भवति । तथा कस्य अपूर्वं-उत्कृष्टं यशो न समुल्लसति । किमतोऽपीति । यादवा:-यदुवंश्यास्तेषां प्रियः शूरनाम आद्यपुरुषस्तं भयात्स्थितिलंघनलक्षणात् न उपसर्पति-न तत्समीपे व्रजति । एतेन श्वसुरो वध्वा न स्पृश्यते इति स्थितिरुक्ता । शोभने नयने यस्याः सा देवरं-गदनामानं कृष्णस्य गदाग्रजत्वात् बलभद्रमपि ज्येष्ठसम्बधेन प्रतीतं दृष्ट्वा-वीक्ष्य प्रकर्षेण पलायते स्पर्शभयात् । अपि भिन्नक्रमः । तथा वसुदेवः-कृष्णस्य पिता तत्रापि चक्षुः-अक्षि न पातयति न न्यस्यति । अत्राऽपि स्थितिरेव हेतुः । केवलमिति । तथा अनवरतं-शश्वत् शिक्षितो वैदग्ध्यकलाप:-दक्षतातिशयो यया १. नाप्नोति अनू. । ३. प्रकृष्टा अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy