SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ २७६ दमयन्ती-कथा-चम्पूः यस्मात् विपरीतं-विपरीताचारं को न परिहरति, कमिव ? शवमिव । यथा विभिः-पक्षिभिः परीतं-व्यारं शवं परिहरन्ति तथैनमपि । सुविनीतानां आवर्जितगुणानां अभ्यस्तकलानामपि प्रायः प्रभवन्ति व्यसनानि रक्षितव्यः प्रमादश्च । व्यसनेषु स्त्रीषु अत्यासक्तिर्महद्व्यसनं द्रव्यशरीरयोः क्षयहेतुत्वात् । स्त्रीव्यसने हि राजयक्ष्मोद्भवः । ततः स्त्रीव्यसनं लक्ष्मीप्रमादश्च परिहारयन्नाह कमलदल'दीर्घाक्ष, शिक्षाप्रक्रमेऽस्मिन्न परमप्यभिधीयसे । मा गाः स्त्रियाः श्रियो वा विश्वासम् । अधिकमलवसतिरनार्यसंगता स्त्री श्रीश्च कं न प्रतारयति । या कालकूटद्वितीया नीरोषितापि नाहृदया भवति । स्वीकृतापि विवाहेन कंसानलङ्घनचापलेनोद्वेजयति । अस्याः कारणेऽभ्रान्तः समस्तोमन्दरागः सदालोकः, लोलनेत्रीकृता घृष्टा भुजङ्गमण्डली', प्राप्तो जलधी राजकुमारपराभवम् । । अनयावष्टब्धः को न गुरुवारणयोग्यो भवति, को न वाजिपृष्ठमारोहति , कः कंकणन्नवञ्चनातः प्रकटयति, कः कण्ठे हारावमोचनं न कुरुते, को न काञ्चन शृङ्खलामनुभवति । कुरङ्ग इवान्धीभूतः को वागुरावञ्चनां करोति, कः कार्मुकनिर्मुक्तशिलीमुख इव न वैलक्षमागच्छति । कस्य न पराभूतिर्भवति । कस्य नापूर्वं यशः समुच्छलति । किमतोऽप्यस्याः परमुच्यते । यादवप्रियं शार्दूलमिव शूरं महत्तरं भयान्नोपसर्पति । सुनयनादेवरं सिंहमिव बलभद्रं दृष्ट्वाऽपि प्रपलायते११ । न वसुदेवेऽपि चक्षुः पातयति । केवलमनवरतशिक्षितवैदग्ध्यकलापराधात्मिकात्रपापरा परिहृत्य गुणिनो गुरून्परपुरुषे मायाविनि कृतकेशिवधे धृतमन्दरागे रागं बध्नाति । कमलेति । कमलदलवत्-पद्मपत्रवत् दीर्घ-आयते अक्षिणी यस्य सः कमलदलदीर्घाक्षस्तस्य सम्बोधने हे कमलदलदीर्घाक्ष ! त्वमस्माभिरस्मिन् शिक्षाप्रक्रमे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy