SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उच्छ्वासः २७५ तथा कला-विद्वत्तादिका तां अभ्यस्य परिशीलय । असुर्देवादिको लुप्त हि प्रत्ययः । यस्मादावर्जितशौर्यादिगुणोऽपि निःकलः - अनभ्यस्तद्द्वासप्ततिकलः पुरुषो न प्रशस्यते - न स्तूयते । क इव ? निःकल: - वीणाध्वनिरिव । यथा निःकल:- कलयितुमशक्यो वीणास्वनो न शस्यते तथा तथाविधः पुरुषोऽपि । तथा जाड्यं - मौर्य्यं त्यज । हिः-यस्मात् जाड्ययोगेन मानी - स्तब्धः पुमान् दूष्यतां - दूष्यत्वं याति - आप्नोति । हिमानी - हिमसंहतिः साऽपि जाड्यतः - अतिशैत्यात् दूष्येत्यर्थान्तरम् । "हिमारण्ययोर्महत्त्व " [पा० सू० वार्तिक] आनुक्, महद्धिमं हिमानी, जाड्यपरित्यागे । किं पितृमन्त्रिन् मुखरः स्यामित्येतदपि निषिध्यन्नाहमास्म मुखरो भूः । कर्णाटचेटीमिव मुखरतां न शंसन्ति साधवः । 'धवलबलीवर्दपङ्किरिव समाधुर्या वाणी मनो हरति । वर्जय वैपरीत्यम् ॥ विपरीतं शवमिव को न परिहरति । मास्मेति । मुखर:- वाचालोऽपि मा स्म भूः । यस्मान्मुखरस्य भावो मुखरता तां मुखरतां - वाचालतां साधवो न शंसन्ति-न स्तुवन्ति । कामिव ? कर्णाचेटीमिव - कर्णाटदेशदासीमिव । यथा कर्णाटचेटीं साधवो न शंसन्ति । किम्भूतां ? मुखे रतं यस्याः सा तां । यस्माद् या वाणी सह माधुर्येण वर्तत इति समाधुर्या सा मनोहारिणी न च वाचालतायां, वाचो माधुर्यं । केव ? धवलबलीवर्दपंक्तिरिव श्वेतवृषभ श्रेणिरिव सा हि समा-अविषमा धुर्य्या-वाहिनीनां धुरं वहतीत्यर्थः । धुरं वहतीति धुर्या “धुरो यढ्ढकौ" [पा० सू० ४.४.७७] इति यत्, तथा अनशकटं अणीं वा अक्षाग्रकीलिकां हरति-वहतीत्यर्थः । वा-अथवार्थे । वर्जेति । पूर्वस्मात् पूर्वोक्तादस्मादुपदेशात् वैपरीत्यं - अन्यथाभावं वर्जय - त्यज । पूर्वोक्तानुपदेशान् स्वीकुर्वित्यर्थः । १. रतं सुरतं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy