SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: अमृतेति । मन्दो रस:-प्रीतिर्येषां ते मन्दरसा:- मन्दानुरागास्तैर्मन्दया मन्दानुरागया रसया-पृथ्व्या वा अनुगतः - सङ्गतः को न घृष्यते - को न हीयते, अपितु सर्वोऽपि । क इव ? अमृतमथनाय उद्यतः - सावधानो यो हरे: - विष्णोर्बाहुपञ्जरः स इव । पुरा हि देवैर्दैत्यैश्च अमृतायाम्भोधिर्ममन्थ तत्र च मुख्यो बलिष्ठो विष्णुस्तस्य भुजपञ्जरो मन्दरनाम्नः“गिरेर्मन्थानभूतस्य' सानूनि - तटानि गतः - प्राप्तः सन् घृष्टः । तस्मादस्थिरतां-चञ्चलत्वं परिहर-त्यज । कामिव ? शुनीमिव सा तु अस्थिनि २७४ रता-आसक्ता । कुशीति । कुत्सितं शीलं -लौल्यादिलक्षणं यस्य स कुशीलस्तस्य भावः कुशीलता तां गृह्णातीत्येवंशीलस्तथाविधस्त्वं केवलं खलोपभोगाय - दुर्जनोपभोगाय मा स्म भूः । कुशीलो हि दुर्जनानामेवोपयोगी, न साधूनां, तस्मात् कुशीलतां त्यजेत्यर्थः । क इव ? तैलिक इव चाक्रिक इव । स च कुशीलक्षणां - लतां गृह्णाति । तथा खलः -पिण्याकः स एव उपभोगः-उपयोगो यस्य । अयोविकारः कुशी । अकृत्यानि परिहार्य कृत्यमुपदिशन्नाह आवर्जय गुणान् । निर्गुणे धनुषीव सुवंशेऽपि कस्याग्रहो भवति । अभ्यस्य कलाः । निष्कलो वीणाध्वनिरिव प्रशस्यते न पुरुषः । त्यज जाड्यम् । जाड्ययोगेन हिमानी दुष्यतां याति । आवर्जयेति । गुणान् आवर्जय -वशीकुरु । सुवंशत्वादेवास्माकं लोकाग्रहो भविष्यतीति न विमृश्यम् । सुवंशेऽपि - शोभनान्वयजातेऽपि निर्गुणे कस्याग्रहो भवति ? यस्माद् गुणानामेवाग्रहः- आदरो जनस्य, न केवलं कुलीनानां । कस्मिन्निव ? सुवंशेऽपि सुवेणुभूतेऽपि गुण: - ज्या तेन रहिते धनुषीव । यथा सुवंशेऽपि ज्यारहिते धनुषि कस्य आ- आभिमुख्येन बाणाकर्षणाय ग्रह: - ग्रहणं आग्रहो भवेत्, अपितु न कस्याऽपि तथाऽत्रापि । १. मथनभूतस्य अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy