________________
२७३
चतुर्थ उछासः नयनजलस्य आगम:-आगमनं येषु ते तथाविधाः ।
एवं सहायसम्पदं निषिध्य मित्रमण्डलीमवद्यन्नाह
न च ते दुःशिक्षितनृपकलभव्याकरणमार्गेषु निपुणा नर्तकीव मित्रमण्डली ।
तदायुष्मन्नहितया प्रकृत्यायुक्तो'भुजङ्ग इव भयाय लोकस्य ।
न चेति । हे दुःशिक्षित !-असाधुतया अभ्यस्तविध ! हे नृपकलभ ! ते-तव मित्रमण्डली न च व्याकरणमार्गेषु-शब्दशास्त्रपद्धतिषु निपुणा-कुशला । शब्दशास्त्रावबोधे? हि नीतिशास्त्रावगमः, नीत्यवगमेव कृत्याकृत्यविमर्शनं, तस्माच्च सम्पदः । न च तन्नैपुण्यं, तव मित्रमण्डल्यामस्तीति भावः । केव? नर्तकीव ? तत्पक्षे, हे दुःशिक्षितनृपकल !-दुष्टा शिक्षिता नृपकला येन इति सम्बोधनं । सा च भरतोक्तेषु करणमार्गेषु भव्या-प्रशस्या ।
तत् इति उपसंहारे हे आयुष्मन् ! तत्-तस्माद्धेतोः अहितया-हितेतरया प्रकृत्याअविनयादिस्वभावेन अयुक्तसहायमित्रलक्षणया अमात्यादिकया च युक्तः सम्बद्धो भवान् लोकस्य भुजङ्ग इव भयाय हेतुः२ । भुजगस्तु अहेर्भाव अहिता तया दशनलक्षणया प्रकृत्या च युक्तः । दुष्टप्रकृतिर्नृपश्चेत् लोकस्य भयाय ।
ततः किमित्याहउग्रसेना इव कंसानुरागं जनयेत् । अमृतमथनोद्यतहरिबाहुपञ्जर इव मन्दरसानुगतः को न घृष्यते । शुनीमिवास्थिरतां परिहर । कुशीलताग्राही मा स्म तैलिक इव केवलं खलोपभोगाय भूः ।
उग्रा सेना-अमात्यादिका यस्य स कं-प्राणिनं सानुरागं जनयेत्-कुर्यात्, न कमपीत्यर्थः विरागहेतुरेवेति भावः । उचितपरिवारो हि जनानुरागाय, परिवार एव हि लोकस्योपद्रवं रक्षणं च कुरुते । क इव ? उग्रसेन इव-उग्रसेनो दैत्यविशेषः स कंसासुरस्यानुरागं जनयति इत्यागमोक्तोल्लिङ्गनम् ।
चेदमी विरुद्धबुद्धयः सहायादयः पृथ्वी वा मयि मन्दानुरागा, ततः किं ममेति निरस्यन्नाह
१. शब्दतत्त्वावबोधे अनू. । २. भयाय भयहेतुः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org