________________
२७२
दमयन्ती - कथा - चम्पूः
अविनीतोऽग्निरिव दहति ।
अजातनय'श्च्छाग इव नास्तूयते जनेन ।
किं च ब्रूमः -
सुसहायशून्यस्य भवतो यस्यामीमांसाभियोगा राक्षसा इव, अन्यायाः पारदारिका इव, अयोगक्रिया लोहकारा इव, अश्रुतागमाः शोकवेगा इव सहायाः ।
अविनीत:- अविनयी पुमान् अग्निरिव दहति - दाहं उत्पादयति आत्मनः परस्य वा । पक्षे, अवि:-ऊर्णायुस्तेन नीतो यथा अग्निस्तन्नेतारं दहति । " ज्वलन्ती हि गड्डरिका स्वीकृता दहतीति" [ ] लोकोक्तिः । अथवा अविरग्निदाहनं न तु आत्मदाहकाः पतिविपत्तौ स्त्र्यादयः परदाहकाः कामत्रिपुरान्तकप्रभृतयश्च स्तूयन्ते ।
ततश्च अविनयाद्दाहात्मकमपि मां जनः स्तोष्यतीति निरस्यन्नाह -
अजातेति । न जातो नयो यस्य स छाग इव न स्तूयते, जनेन स्तुतिमपि न प्राप्नोतीत्यर्थः । छागस्तु अजायास्तनयः - सुतः ।
आत्मन: स्वामी यादृक् तादृग् वा भवतु चेत् सुसहायस्तदपि नास्तीत्यावि:कुर्वन्नाह
किञ्च - पुनः वयं ब्रूमो भवन्तं प्रति
सुसहायै: - शोभनानुचरै: शून्यस्य रहितस्य यस्य भवतः ईदृशा अमी सहायास्तद्यथा- न मीमांसाभियोगः - विचारोत्साहो येषां ते तथाविधाः । क इव ? राक्षसा इव ? ते किम्भूता: ? मांसे अभियोगः - उद्यमो येषां ते मांसाभियोगाः । अत्र पक्षे अमी इति पूर्वपक्षीयसहायविशेषणम् । तथा न विद्यते न्याय: - नीतिर्येषां ते इत्यन्याया:- न्यायरहिताः । के इव ? पारदारिका इव - परदारलम्पटा इव, परदारान् गच्छतीति पारदारिकः, “गच्छतौ परदारेभ्य:” [पा० सू० वार्तिक] इति ठक् । ते किम्भूता: ? अन्यां - अन्यसम्बद्धां कान्तां आयन्ते-गच्छन्तीति अन्यायाः परस्त्रीरता इत्यर्थः । तथा अलब्धलाभो लब्धपरिरक्षणं रक्षितविवर्द्धनं य योगस्तस्य क्रियाकरणं नास्ति येषां ते अयोगक्रिया: असम्बद्धकर्माणो वा । के इव ? लोहकारा इव ? ते किम्भूता: ? अय: - लोहं गच्छन्तीति अयोगा लोहगता क्रियाकुट्टनादिरूपा येषां ते अयोगक्रियाः । तथा न श्रुत आगम: - शास्त्रं यैस्ते अश्रुतागमा: । के इव ? शोकवेगा इव - शोकप्रसरा इव । ते किम्भूता: ? अश्रुताया: - भावप्रत्यया विवक्षया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org