________________
२७१
चतुर्थ उछासः
ननु यदि रूपाऽहङ्कारान्नृपो मूढः स्यात् तदा को दोषः ? इत्याशंक्याह___ अनुभवति स च रूपाहङ्कारान् मूढः कोशशून्यतां अनुभवति, चकारो यौगपद्ये यदेव कुतोऽपि मुह्यति तदेव कोशेन-भाण्डागारेण शून्यतां-व्यतिरेकं प्राप्नोति, कोशरहितो भवतीत्यर्थः । क इव ? शस्त्रसंघात इव-प्रहरणसमूह इव । यथा चम्वा-सेनया ऊढः-धृतः शस्त्रनिचयः कोशशून्यतां-प्रत्याकारराहित्यमायाति ।
भ्रष्टकोशस्यापि किं तदाह___ अविभवः-निर्धनः पुमान् बलस्य-सैन्यस्य शक्तेर्वा कमुपयोगं-साफल्यं गच्छतियाति ? न कमपीत्यर्थः । निर्धनत्वात् सर्वमपि सैन्यं शक्तिश्च ततः प्रयाति, ततो जयादिकां तत्फलं क्व तस्येति । एतेन निःकोशस्य अबलत्वमिति ख्यापितम् । क इव ? मेष इवअज इव । स च किम्भूतः ? अवे:-मेण्ढाद् भवति स्मेति अविभवः, तथा कम्बलस्यआच्छादनविशेषस्य उपयोगं-निमित्तत्वं गच्छति-याति, तद् रोमभिः कम्बलोत्पत्तेः ।
तस्मात् अबलस्य का कथा ? यतः
प्रद्युम्नजातोऽपि-प्रकृष्टौजः पुञ्जोऽपि बाणैः-शब्दैर्यद् युद्धं-कोलाहलस्तद् व्यतिकरकारिण्या-तत्सम्पर्कविधायिन्या सह दोषैरिति दोषान्वितया यौवनावस्थया-तारुण्यावस्थया निरुद्धः-आत्मवशीकृत: को नाम क्लेशं-दुखं नानुभवति ? अपितु सर्वोप्यनुभवत्येवेत्यर्थः । नामेति अभ्युपगमे द्युम्नं-द्रव्यमपि बाणधातुः शब्दार्थो घजन्तः । क इव? अनिरुद्ध इव । सोऽपि प्रद्युम्न:-कामस्तस्माज्जातो अनिरुद्धाभिधो बाणाख्येन दैत्येन समं युद्धव्यतिकर- विधायिन्या यौवनेऽवतिष्ठत इति कृत्वा तारुण्ये स्थितया उषया-उषाख्यया पत्न्या सदा निरुद्धः-आत्मवशीकृतो दुःखमनुभूतवानित्यागमः । युद्धव्यतिकरोऽनङ्गसूनोः क्लेशानुभव- हेतुः।
तत्तातेति । तदिति-उपसंहारे तातेति-प्रणयपूर्वामन्त्रणे तस्माद् वत्स ! सुष्ठअतिशयेन विषमे-असाधुनि तथा अघवत्तिनि पापकारयितरि अस्थिरे-चञ्चले तथा विशेषेण द्योतन्त इति विद्युतः-रोचमाना विलासा:-शृङ्गारादयो यस्मिन् तथाविधे तारुण्ये-यौवने स्थितः सन् स्मयेन-गर्वेण विनयं मा स्म विस्मर:-मा स्म विस्मार्षीः । कस्मिन्निव ? अस्थिरे विद्युद्विलासे इव, सोऽपि सुष्ठु विषं-जलं यत्रेति कृत्वा सुविषे-सुजले मेघे वर्तत इति । तथा अस्थिर:-लोलः ।
अथ विनयविस्मृतौ दूषणमाह
१. अनुभवेति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org