SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ २७० दमयन्ती-कथा-चम्पू: सन् पितुः पादारविन्दद्वयं प्रणम्य-प्रकर्षेण नत्वा अदूरदत्तं-राज्ञो निकटे वितीर्णं आसनं-पीठं भेजे-शिश्राय । उपविष्टे च' तस्मिन्ननभिवादनादुत्पन्नमन्युरीषत्कोपकम्पितकरपरामृष्टकूर्चाग्रिमग्रन्थिरग्रणीमन्त्रिमण्डलस्य भ्रूभङ्गभीषणया शोणकोणान्तरतरत्तरलतारया दृशाऽभिमुखमस्यावलोक्य सालङ्कायनः प्रणयपरुषाक्षरमभाषत ।। तस्मिन्-नले उपविष्टे च सति अनभिवादनात्-आत्मनोऽप्रणामात् उत्पन्न:-जातो मन्युः-कोपो यस्य सः, ईदृग्विधः सन् सालङ्कायनः पैतृको मन्त्री भ्रूभङ्गेन-भृकुटीकरणेन भीषणा-रौद्रा तया दृशा अस्य-नलस्य अभिमुखं-सम्मुखमवलोक्य शिक्षाबुद्ध्या प्रणयेनस्नेहेन परुषाक्षरं-रूक्षवर्णं यथा भवति तथा अभाषत-अवादीत् । किम्भूतः सालङ्कायन: ? ईषत्कोपेन-मनाङ् मन्युना कम्पितः-चलितो यः करस्तेन परामृष्टः-स्पृष्टः कूर्चस्यश्मश्रुरोम्णा' अग्रिमग्रन्थिः-प्रान्तभागो येन सः । पुनः किम्भूतः ? मन्त्रि-मण्डलस्यसचिववृन्दस्य अग्रणी:-मुख्यः । किम्भूतया दृशा ? शोणकोणान्तरे-रक्तनेत्रप्रान्तरूपावकाशे तरला-चपला तरन्ती-विलसन्ती तारा-कनीनिका यस्याः सा तया । अथ यदवादीत्तदाह-- 'कुमार, राजहंसोऽपि 'अहंसरूपः' इति मा स्म मोहवान्भूः । अनुभवति च मूढः शस्त्रसंघात इव कोशशून्यताम् । अविभवः पुरुषो मेष इव कम्बलस्योपयोगं गच्छति । प्रद्युम्नजातोऽपि बाणयुद्धव्यतिकरकारिण्या सदोषया यौवनावस्थया निरुद्धोऽनिरुद्ध इव को नाम न क्लेशमनुभवति । तत्तात, सुविषमेघवर्तिनि विद्युद्विलास इवास्थिरे स्थितस्तारुण्ये मा स्म विस्मर स्मयेन विनयम् । कुमारेति । हे कुमार ! त्वं राजहंसोऽपि-राजमुख्योऽपि सन् सरूप:-रूपवानहं इत्यमुना प्रकारेण मोहवान् मा स्म भूः-मोहं मागाः । रूपमदो हि नीचचिह्नम् । यश्च राजहंसः स कथं अहंसस्वरूप इति विरोधद्योतको अपि शब्दः । १. कूर्चश्मश्रुरोम्णां अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy