SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ २६२ दमयन्ती-कथा-चम्पू: सुरापानभावस्तेन मत्तः-क्षीबो लोको यस्मिस्तत् अपीतमत्तलोकं । अन्यथा हि वृष्ट्या धूली नश्यति, शरदाद्योरमलता, पानान्मदः, अत्र तु तदन्तरेणापि ईदृशं जगदजायत स तदुत्पत्तिप्रभावः ॥ १३ ।।। भूते च विभवभूयिष्ठे षष्ठीजागरणव्यतिकरे, अतिक्रान्तेषु च सूतकदिवसेषु नामकरणोचितेऽह्नि' 'न २लास्यति धर्मधनान्येष साधुभ्यः' इति ब्राह्मणा:३ प्रविश्य तस्य 'नलः' इति नाम प्रतिष्ठापयामासुः । विभवेन-धनेन भूयिष्ठः-प्रचुरो विभवभूयिष्ठस्तथाविधे देयबहुलधने इत्यर्थः । षष्ठीजागरणस्य महोत्सवे शेषस्य' व्यतिकर:-प्रस्तावस्तस्मिन् भूते च-जाते सति । तथा सूतकदिवसेषु अतिक्रान्तेषु-निवृत्तेषु सत्सु नाम्नः करणं-अभिधानदानं तस्योचिते-योग्ये प्रधाने अह्नि-दिवसे एषः-अर्भकः साधुभ्य:-ब्राह्मणादिभ्यो दत्तानि धम्मार्थधनानि२धर्मधनानि न लास्यति-न ग्रहीष्यति इति हेतोः ब्राह्मणाः प्रविश्य-राजमन्दिरान्तःप्रवेशं विधाय तस्य-अर्भकस्य नल इति नाम प्रतिष्ठापयामासुः-निमित्तात् सामुद्रिकलक्षणात् जन्मलग्नाद्वा साधूनां धर्मधनाग्रहणे अन्तर्मुख अभिधायमाश्रित्यः ‘नल' इति अभिधानं प्रतिष्ठितवन्त इत्यर्थः । क्रमेण च चतुरुदधिवेलावनविकासोचितकीर्तिकुन्द कन्दलैविश्वविश्वंभराभिलम्भ'लम्पाकैः कुमारसेवकैरिव सकलचक्रवर्ति चिद्वैरलङ्कृतावयवो विस्तर जटालवालः कल्पपादपाङ्कुर इव वर्धितु-आरभत । विरचितचूडाकरणादिसंस्कारक्रमश्च प्राप्ते विद्याग्रहणसमये निमित्तमात्रीकृतोपाध्यायः स्वयमेव समस्तानवद्यविद्याम्भोनिधेः परंपारमवाप । क्रमेणच-दिनपक्षादिपरिवर्तनपरिपाट्या स नलः कल्पपादपाङ्कुर इव वद्धितुमारभत-प्रावर्त्तत । किम्भूतो नलः ? विस्तरन्तः-प्रसरन्तो जटाला:-स्वभावजटाबन्धाः बाला:कचा, यस्य स, वृत्तचूडाकरणे हि केशा विजटी भवति । किम्भूतः कल्पपादपाङ कुरः ? विस्तरन्त्यो जटामूलानि यप्मिन्नेवंविध आलवालः-तरुमूलकृतोदकाधारगर्भो' यस्य सः, प्रसरन् मूलालवालः । पुनः किम्भूतः ? सकलानि-समस्तानि यानि चक्रवर्त्तिचिह्नानिरेखारूपाणि चक्रचापकुलिशादीनि तैः अलङ्कृताः-विभूषिता, अवयवाः-हस्तपादादयो यस्य स अलङ्कृतावयवाः५ । राजचिह्नः कैरिव ? उत्प्रेक्ष्यते, कुमारसेवका:१. महोत्सवविशेषस्य अनू. । २. धर्मार्थं अनू. । ३. अन्तर्मुखमभिप्रायं अनू. । ४. °दकाधारगर्ते अनू. । ५. अलंकृतावयवः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy