SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उच्छ्वासः २६१ मङ्गलवादित्रैः, चित्रीयितमतिबहुल परिमलपतत्पुष्पवृष्ट्या, विकसितं दिग्वधूवदनारविन्दैः, विलसितमतिसुरभिसुखस्पर्शसमीरणेन, स्वच्छन्दायितं बन्दीकृतारातिरमणीभिः, आढ्यायितमर्थिलोकैषु । ___ तज्जन्मावसरे राजवंशेन-नृपान्वयेन चिरात् पल्लवितं-किसलयितं, वंशे हि पल्लवानां सम्भवात् । तथा राज्यश्रिया-राज्यलक्ष्म्या उच्छ्वसितं-उच्छ्वासः प्राप्तः । तथा प्रणयिभिः-स्नेहलैः प्रीतं तुतुषे । तथा पौरेः-पुरनिवासिभिः प्रनृत्तं-हर्षान्नृत्यं चक्रे । तथा बान्धवैः-स्वजनैः प्रमुदितं-हर्षः प्राप्तः । तथा द्रुह्यन्ति-विजघांसन्तीति' द्रोहिणस्त एव जना द्रोहिणजनास्तैः२ विद्राणं-संकुचितं विशेषेण पलायितं वा । "द्राल(द्रै) स्वप्ने पलायने च" [पा० धा० ९७२ ] । तथा वियत्ति-व्योम्नि अदृष्टानि-अवीक्षितानि यानि मङ्गलवादित्राणि तेषां ध्वनिभिः-शब्दैरुन्नदितं-उल्लसितं, तदा अदृष्टान्येव वादित्राणि व्योम्नि अवादिषुः । तथा अतिबहुल:-अतिप्रचुरः परिमल:-आमोदो यस्यां ईदृशी पतन्तीभूसम्बन्धं प्राप्नुवती३ या पुष्पवृष्टिस्तया चित्रायितं भक्तिविशेषविन्यासायितं । तथा दिग्वधूनां यानि वदनारविन्दानि तैविकसितं-विकासः प्राप्तः, दिशः प्रसेदुरित्यर्थः, अरविन्दानां हि विकसनधर्मत्वात् । तथा सुखयतीति सुखः सुखकारी "पचाद्यच्" तथाविधः स्पर्शो यस्याऽसौ सुखस्पर्शः, अतिसुरभिः-सुगन्धिश्चासौ सुखस्पर्शश्च, तथाविधो यः समीरणः-वायुस्तेन विलसितं-विलासं प्राप्तस्तेन, वातुं प्रवृत्तमित्यर्थः । तथा बन्दीकृताः-हठाद् गृहीता या अरिरमण्यः-शत्रुस्त्रियस्ताभिः स्वच्छन्दायितं-स्वच्छन्दाभिरिव आचरितं स्वच्छन्दायितं, कुमारजन्मोत्सवे हि गुप्तिमोक्षणात् बन्दीनां स्वाच्छन्द्यं । तथा अथिलोकैः-याचकजनैः आढ्यायितं-आढ्यैरिवाचरितं आढ्यायितं, धनवद्भिर्जातं । आढ्यत्वे त्यागातिशयो हेतुः । किं बहुनाकिम्बहुना-किम्बहूक्तेन... अवृष्टिनष्टधूलीकमशरन्निर्मलाम्बरम् । अपीतमत्तलोकं च जगज्जन्मोत्सवेऽभवत् ॥ १३ ॥ अवृष्टीति । वृत्तम् । तस्य जन्मोत्सवे जगदीदृशमभवत्-जातम् । किम्भूतम् ? अवृष्ट्या-वृष्ट्यभावेनाऽपि नष्टा धूलियत्र तत्, अशरदा-शरत्कालाभावेनाऽपि निर्मलं-विशदं अम्बरं-नभो यत्र तत्, तथा पानं-पीतं "भावे क्तः" [ ] न पीतं अपीतं १. जिघांसंतीति अनू. । २. द्रोहिजनाः अनू. । ३. आप्नुवती अनू. । ४. विलास: अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy