SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: २६० किम्भूतस्य राज्ञः ? अंशुना - रविणा सह सांशुकः उन्नतः - उदयप्राप्तो वंश: - अन्वयो यस्य स तस्य रवेर्वंशस्य च तुल्यमुदयनमिष्टं प्रगे तस्याऽपि उदितत्वात् । किम्भूतस्य पुरस्य ? सांशुका:- सपताकाः उन्नता: - उच्छ्रिताः वंशाः - वेणवो यस्मिंस्तत्तस्य । अपि च सवृद्धबालाः कालेऽस्मिन्मुक्ताहारविभूषणाः । प्राप्ताः प्रीतिं पुरे पौरा वनेषु च तपस्विनः ॥ ११ ॥ अपि चेति पुन: सवृद्धेति । वृत्तम् । अस्मिन्काले - जन्मसमये पौराः - पुरवासिनो लोकाः प्रीतिं प्राप्ता:, वनेषु च तपस्विनः-तापसाः प्रीतिं प्रापुः । किम्भूताः पौराः ? वृद्ध: - पितामहादिः बालः-पुत्रादिः ताभ्यां सह-युक्ताः सवृद्धबाला:, तथा मुक्ताहारा - मौक्तिकलता विभूषणं- अलङ्कारो येषां ते मुक्ताहारविभूषणाः । किम्भूताः मुनयः ? सह वृद्धबालैः - प्रलम्बकेशैर्वर्तन्त इति सवृद्धबालाः, कूर्चादेरसंस्कारात्, तथा मुक्त:-त्यक्त: आहारो यैस्ते मुक्ताहारा:, तथा व्यपेतानि भूषणानि - भूषा येभ्यस्ते पश्चात् कर्मधारयः ॥ ११ ॥ सूतीगृहे च अलंकृतनिशान्तेन तरुणारुणरोचिषा । प्रदीपानां प्रभा तेन प्रभातेनेव निर्जिता ॥ १२ ॥ सूतीगृहे च-अरिष्टे अलमिति । वृत्तम् । तेन नलेन प्रभातेनेव प्रदीपानां प्रभा निर्जिता-जिग्ये । यथा प्रभातेन प्रदीपानां प्रभा जीयते तथा तेनाऽपि । किम्भूतेन तेन ? अलङ्कृतं विभूषितं निशान्तं गृहं येन स तेन तथा तरुणो यो अरुण' : - रविस्तरुणारुणः मध्याह्नार्कस्तद्वद् रोचिर्यस्य सः । अतएव महात्मनां हि भूयिष्ठेन तेजसा दीपप्रभाप्यभिभूयते । प्रभातेन तु अलं-अत्यर्थं तरुणयारे - नूतनया अरुणस्य - रविसारथेः, रोचिषा - कान्त्या कृतो निशाया:रात्रेरन्तो येन । यदि वा, अरुणरोचिषा - लोहितकान्तिना तरुणा- - वृक्षेण उपलक्षितेन प्रभातेन, तत्समये हि दिनकरकरस्पर्शतस्तरवो रक्ता भवन्तीत्यर्थः ॥ १२ ॥ चिरात्पल्लवितं राजवंशेन, समुच्छ्वसितं राज्यश्रिया, प्रीतं प्रणयिभिः, प्रनृत्तं पौरैः प्रगुदितं बान्धवैः विद्राणं द्रोहिजनैः, उन्नदितं वियत्यदृष्ट , १. अरुण: नास्ति अनू. । २. अं अत्यर्थं नास्ति अनू. । ३. अरुणया अनू. । For Personal & Private Use Only Jain Education International , www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy