SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उच्छवासः २५९ एवमुच्चस्थानानि । ननु विषयादिष्वसंग्रहात् ग्रामशब्दः कथं वृन्दार्थवाची ? इत्यत्रोच्यते"अथ ग्रामो वृन्दे शब्दादिपूर्वके । खङ्गादौ संवसथे च" [२।३२४-३२५] इत्यनेकार्थः। "आदिशब्दात् विषयास्त्रभूतेन्द्रियगुणादिग्रहः" [ ] इति तट्टीकायामादिशब्दग्रहादन्यस्मादपि ग्रामशब्दो वृन्दवाची घटत एव । तथा महाराजस्य जन्मन उचिते-योग्ये अहिदिवसे, यस्मिन् दिने महाराजस्य जन्म भवेत् तथाविधे वासरे सर्वोत्कृष्ट इत्यर्थः । तथा शुभसम्मारस्य-कल्याणसमूहस्य कारणायां-जनयित्र्यां कालकलायां-कालविशेषे त्रुटितवादिरूपे “सम्भारः सम्भृतौ गणे" [३।६५२] इत्यनेकार्थः । तथा जातप्राये-अल्पशेषे प्रभाते नरपालप्रिया-राज्ञी प्रभाप्रतानेन-दीप्तिसमूहेन जनितः परिवेषः-परिधिर्येन स तं । तथा अशेषतेजस्विनां-समस्तदीप्तिमतां तेजःपुञ्जमपहरतीत्येवंशीलं अधिकतेजस्वित्वात् तान् विच्छायं कुर्वन्तमित्यर्थः । तथा आ-ईषत् लोहितौ यौ पादपल्लवौ तयोरुल्लसिता-उत्सर्पिता पङ्कजवच्छाया-शोभा यस्य स तथाविधं प्रीणितगोत्रं-हर्षितवंशं पुत्रं अजीजनत्-प्रासूत । का? कमिव ? द्यौः-व्योमरविमण्डलमिव । यथा द्यौः प्रगे रविमण्डलं जनयति, तदपि दीप्तिततिकृतवेष्टनं तथा समस्तदीपप्रभृतितेजस्वितेजोमुषं, तथा आलोहिताः पादाः किरणा एव पल्लवास्तैरुल्लसिता पङ्कजच्छाया यस्मात् स तथाविधं च भवति । मण्डलं पुंस्यपि । पुनः कं केव? विद्युतां लोलनं लोल:-विलासस्तं उन्नमन्ती-वर्षणार्थं कृतयत्ना मेघमालेव । यथा उन्नमन्मेघमाला विद्युल्लोलं जनयति । तथा वितानं-विशिष्टविस्तारं वैश्वानरं अरणिरग्नि:-अघकाष्ठमिवरे । यथा अरणिवितानवैश्वानरं जनयति । तननं तानो विस्तारः घञ् विशिष्टस्तानो वितानः । किम्भूतं रविमण्डलम् ? प्रीणितो गोत्र:-उदयाचलपर्वतो येन तं। विद्युल्लोलपक्षे, प्रीणितो गोत्राङ्गो समूहो३ येन तं । वितानवैश्वानरपक्षे, प्रीणितगोत्रंप्रीणितपृथ्वीकं । “गोत्रं क्षेत्रेऽन्वये छात्रे सम्भाव्यबोधवर्त्मनोः । वने नाम्नि च गोत्रोद्रौ गोत्रा भुवि गवां गणे ॥" [२।४२४] इत्यनेकार्थः । तत्र च दिवसेसांशुकोनतवंशस्य तस्य राज्ञः पुरस्य च । बभूव लक्ष्मीः सा कापि यया स्वर्गोऽपि निर्जितः ॥ १० ॥ यस्मिन् दिने स जातः तत्र च दिवसे सांशुकेति । तस्य राज्ञः-वीरसेनस्य पुरस्य च सा काऽपि-काचित् लक्ष्मी:-शोभा बभूव, यया शोभया स्वर्गच्छतीति कृत्वा स्वर्गो देवः-स्वर्गलक्षणो लोकश्च सोऽपि निर्जितःजितः । राज्ञः श्रिया स्वर्गो देवो जितः, पुरस्य च श्रिया स्वर्गरूपो लोको जित इति । १. असंग्रहात् ग्रहाद् अनू. । २. अरणिरग्नि मथनकाष्ठमिव अनू. । ३. प्रीणिता गोत्रा गोसमूहो अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy