SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ २५८ दमयन्ती-कथा-चम्पू: आत्मानं आलेप्तुं-देग्धुं अवाञ्छन्-इयेष ववाञ्छ । कुचकुम्भस्य चन्द्रमाः, मेचकचूचुकस्य लाञ्छनमुपमानम् । अग्रतः-पुरतः सखीजनेन विधृतं-गृहीतं मणिमयं-रत्नप्रधानं, प्राधान्ये मयट, मुकुरमण्डलं-आदर्शतलमपास्य-अपनीय अनवरतं-सततं निशाता:-तीक्ष्णाः निर्मला:कालिकारहिता ये करवाला:-खङ्गास्तेषां तलेषु-उपरिभागेषु आत्मनो मुखकमलं अवलोकयांचकार-ददर्श । एतावता गर्भस्य शौर्यवत्ता दर्शिता । तथा नीलोत्पलं-सख्योपनीतं नीलकमलं निरस्य-अपनीय जरठः-चिरकालीनो यः कण्ठीरवः-सिंहस्तस्य कण्ठे यः केसरस्तबकः-रोमगुच्छस्तं कर्णावतंसं-कर्णशेखरमकरोत् । ___तथा सख्योपनीतं अतिबहलः-अतिनिविडो यः कुङ्कुमः-घुसृणद्रवस्तस्य अङ्कस्थानं तत्सहितमित्यर्थः । कस्तूरिकापङ्कमपहाय-परित्यज्य मत्तमातङ्गानां-दृप्तगजानां मदकर्दमेन निजभुजशिखरयोः-आत्मभुजाग्रयोविचित्राः-विविधा ये चित्रभङ्गाः-पत्रलतास्तान् विरचयाञ्चकार-व्यधात् । “अङ्को भूषारूपकलक्ष्मसु । चित्राजौ नाटकाद्यंशे स्थाने क्रोडेन्तिकागसोः" [२।१-२] इत्यनेकार्थः । ___एवं स्फुर'द्गर्भानुरूपदोहदसुखमनुभवन्ती कदाचिदुच्चस्थानस्थिते सौम्यग्रहग्रामे, महाराजजन्मोचितेऽह्नि शुभसंभार कारणायां कालकेलायां३ जातप्राये प्रभाते प्रभाप्रतानजनितपरिवेषमशेषतेजस्वितेजःपुञ्जापहारिणमालोहितपादपल्लवोल्लसित पङ्कजच्छायम्, द्यौरिव रविमण्डलम्, उन्नमन्मेघमालेव विद्युल्लोलम्, अरणिरिव वितानवैश्वानरम्, नरपालप्रिया प्रीणितगोत्रं पुत्रमजीजनत् । एवं-अमुना प्रकारेण स्फुरन्तः-प्रसरन्तो गर्भानुरूपा:-गर्भानुकुला ये दोहदाःअभिलाषास्तेषां पूरणे यत्सुखं तदनुभवन्ती सा राज्ञी कदाचित् सौम्यग्रहग्रामेबृहस्पत्यादिग्रहसमूहे उच्चस्थानेषु स्थिते सति । ग्रहाणां हि द्विविधमुच्चत्वं राशिकृतं भागकृतञ्च । तत्र प्रथमराशौ सूर्यस्योच्चता, दशभागेषु, वृषे शीतगोस्त्रिषु भागेषु, हरौ कुजस्याऽष्टाविंशेषु भागेषु, कन्यायां बुधस्य पञ्चदशसु भागेषु, कर्के गुरोः पञ्चसु भागेषु, मीने शुक्रस्य सप्तविंशतिभागेषु, तुलायां शतेविंशतिभागेषु । तथा च ज्योतिःशास्त्रम् ___ अजवृषमृगाङ्गनाकर्क मीनवणिजांशकेष्विनाधुच्चाः । दशसि ख्यष्टाविंशति' तिथीन्द्रियत्रिघनविशेषु ॥" [ ] १. दश शिख्यष्टाविंशति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy