SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उच्छासः २५७ मृगलाञ्छनच्छायाम वाञ्छदच्छामृतपयःपिष्टमूर्तिमन्मधुसमयमदनमृगाङ्कमण्डलरसेनात्मानमालेप्तुम् । अग्रतः सखीजनविधतमपास्य मणिमयं मकरमण्डलमनवरतनिशात निर्मलकरवालतलेष्वात्ममुख कमलमवलोकयांचकार । निरस्य नीलोत्पलं जरठकण्ठीरवकण्ठकेसरस्तबकमकरोत्कर्णावतंसम् । अतिबहल कुङ्कमाङ्ककस्तूरिकापङ्कमपहाय मत्तमातङ्गमदकर्दमेन निजभुजशिखरयोर्विरचयांचकार विचित्रपत्रभङ्गान् । ततः अतिभक्त्या तोषित:-प्रमोदितो यो हरस्तस्माल्लब्धः-प्राप्तो वरः-पुत्रप्राप्तिलक्षणो येन ईदृग्विधश्च स-राजा निरुपम-अतुल्यं रूपं यस्याः सा तया, च-पुनः अनुरूपया-स्वस्य योग्यया रूपवत्यभिधानया प्रधानया-प्रकृष्टया प्रियया-दमितया सह मकरकेतनकेलिं-मन्मथलीला अनुभवन्-आस्वादयन् अतिचिरं-चिरकालं आसाञ्चक्रेतस्थितवान् । तुरथार्थः । कियत्यपि समये अतिक्रामति-गच्छति सति रूपवतीप्रिया सम्पन्नसत्वा-सगर्भा समपद्यत-जाता । तेन च समस्तानि यानि संसारे वस्तूनि तेभ्य उद्धृताः-उच्चिता ये कान्तिकणा:दीप्तिलवास्तैः कलितः-युतो यो गर्भारम्भः-दोहदलक्षणप्रथमोत्पत्तिस्तेन मनाक् मेदुरितंमांसलं जातं उदरं यस्याः सा तथाविधा राजीववद्विशाले नयने यस्याः सा राजीवनयना राजपत्नी-राजमहिषी रराज-शुशुभे । केन ? केव? विरिञ्चस्य-विधेः उत्पत्तये यत् कमलं तस्य यत्कन्दं-मूलं तस्य यो बन्धः-तदुत्पादकरसकणिकारूपस्तेन नारायणनाभिरिव । यथा नारायणनाभिविरिञ्चोत्पत्तिकमलकन्दबन्धेन मनाङ्मेदुरितोदरा राजते तथा तेन साऽपि । पुनः केन केव ? पल्लवारम्भस्य-किसलयप्रथमोत्पत्तेर्य उच्छ्वासः-औन्नत्यं तेन कल्पपादपलतेव, यथा तेन सा राजते तथा सा तेन रराज । क्रमेण च-गर्भारम्भदिनादारम्य मेचके-कृष्णे उच्चे-उन्नते चूचुके यत्र ईदृशौ यौ कुचकुम्भौ तयोः कपोलपालेश्च-प्रशस्तगण्डस्य पाण्डिम्ना-धवलतया मृगलाञ्छनस्यचन्द्रमस:२ छायां-शोभां निम्नयन्ती तिरस्कुर्वती सती सा राज्ञी अच्छं-विमलं अमृतमेव यत्पयः-नीरं तेन पिष्टः-घृष्टो योऽसौ मूर्तिमतां मधुसमयमदनमृगाङ्कमण्डलानां रसस्तेन १. च नास्ति अनू. । २. चन्द्रस्य अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy