SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ २५६ दमयन्ती-कथा-चम्पू: यदनेकार्थतलिक:-"निषधः कठिने देशे निषधे शेखरे गिरौ । हस्तके करिभेदे च ।" [३।५६] इति। कदाचि'च्चतुरुदधिवेलावलयितवसुन्धराविख्यातमपत्यमभिलषन्ननादरचरणाङ्गष्ठनिष्ठ्यूतकैलासोन्मूलनागतपतद्दशवदनविरसविरुत२विहसितामरमण्डलीमहितमहिमानमविरत विरिञ्चिविरचित५विचित्रनामसामवस्तुस्तुतिमनवरत सकललोककल्याणकामधेनुमनुपमवर्चसमर्चयांचकार भगवन्तमम्बिकापतिम् । कदाचित्-कस्मिंश्चित्प्रस्तावे चतुरुदधिवेलाभिर्वलयिता-वेष्टिता या वसुन्धरा तस्यां विख्यातं-प्रसिद्धं अपत्यं-सन्तानं अभिलषन्-वाञ्छन् स-राजा भगवन्तं अम्बिकापति-महेशं अर्चयाञ्चकार-पुपूज । किम्भूतं शम्भुम् ? अनादरेण-अवहेलया चरणाङ्गष्ठेन यन्निष्ठ्यूतंनिरसनं तेन कृत्वा कैलासोन्मूलनाय आगतः पतन् यो दशवदनः-रावणस्तस्य विरसा-परुषा या विरुति:१- आरटनं तया विहसिता-हास्यं कुर्वती या अमरमण्डली-देवश्रेणिस्तया महित:-अर्चितः । महिमा अनुभावो यस्य स तम् । महतीशक्तिर्भगवतो येनाऽसौ रावणः कैलासोन्मूलनायाऽऽगतः, स्वचरणाङ्गुष्ठेन निरस्य आरटन् मुक्त इति अमरैः कृता स्तुतिः । निष्ठापितपाठे तु निःशेषेण स्थापनं, शेषं पूर्ववत् । तथा अविरतं-निरन्तरं विरिञ्चेन-ब्रह्मणा विरचिता-कृता विचित्रनामभि:- भर्गभवत्रिनेत्रादिभिः सामवस्तुभिश्च-सामवेदार्थैः स्तुतिर्यस्य स तम् । तथा अनवरतं-सततं सकलानि लोके यानि कल्याणानि तेषां पूरणे कामधेनुरिव यः स तथा तम् । तथा अनुपमं वर्च:-तेजो यस्य स तम् । अतिभक्तितोषितहरलब्धवरश्च निरुपमरूपयानुरूपया च° रूपवत्यभिधानया प्रधानया प्रियया सह मकरकेतनकेलि मनुभवन्नतिचिरमासांचक्रे । अतिक्रामति तु कियत्यपि समये संपन्नसत्वा समपद्यत रूपवती । तेन च समस्त संसारवस्तूद्धृतकान्तिकणकलित११गर्भारम्भेण, नारायणनाभिरिव विरिञ्चो१२त्पत्तिकमलकन्दबन्धेन, कल्पपादपलतेव पल्लवारम्भोच्छ्वासेन, मनाङ्मेदुरितोदरा रराज राजीवनयना राजपत्नी१३ । क्रमेण च मेचकोच्चचूचुककुचकुम्भकपोलिपाण्डिम्ना निम्नयन्ती १. विरतिः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy