________________
चतुर्थ उछ्वास:
एवमस्य' हरस्येव करस्थं कृत्वाशेषमण्डलमनवरतविख्यातविजयाभिनन्दिनः २, सुन्दरकैलासनाभिरम्यवनान्तरेषु विहरतः, मदननिरुद्धनैषधीपीनोच्चकुचकुम्भावष्टम्भमसृणित वक्षःस्थलस्य सुखेनातिक्रामन्ति दिवसाः ।
२५५
यस्येति । चतुरुदधितटीषु चतुः समुद्रकूलेषु टीकमानः- परिभ्रमन् शरच्चन्द्र- वद्विशदःउज्ज्वलो यशोराशिरेव राजहंसो यस्य स तत्रापि यद्यशो गीयत इत्यर्थः । तथाविधस्य यस्यराज्ञः कृपाणेषु निस्त्रिंशता-खड्गत्वं । तथा कलत्रेषु दारेषु कुचाभ्यामातुर्यं - पीडितत्वं, दुर्वहभरत्वात् । तथा पापर्द्धिकेषु-मृगयाभ्यासिषु कूपप्रदेशसेवा जलार्थं मृगादीनां तत्रागमनात् । तथा कैवर्तकेषु मत्स्यबन्धिषु लुब्धक इति पर्याया एकार्थं शब्दान्तरं । अत्र कैवर्तकेषु लुब्धकपर्यायत्वं सोल्लुण्ठं तस्य व्याधेषु अभिधानकोषेऽ' भिधानात् । तथा शस्त्रेषु-प्रहरणेषु तीक्ष्णता-निशितत्वं । तथा धनुर्विद्यायां धर्मनामा द्रुमो यन्मयं धनुविधीयते तस्य छेदनं - कर्त्तनम् । एवं कृपाणादिष्वेव निस्त्रिंशतादीनां परि-संख्योक्ता, न तस्मिन्निति शेषः । तद्यथा- न तस्मिन् राज्ञि निस्त्रिंशताक्रूरकर्मत्वं, तथा न कुत्सितचातुर्यं, तथा कुत्सित उपदेश:- प्ररूपणं येषां ते, कूपदेशा:-दाम्भिकास्तेषां सेवा-सेवनं न, तथा कुत्सितो लुब्ध:-लुब्धकः “कुत्सायां कः " [ ] तस्य पर्यायः - परिणामो न, तथा तीक्ष्णता आय: शूलिकत्वं च न, तथा धर्मस्य - पुण्यस्य छेदो न ।
·
एवं - अमुना प्रकारेण अस्य - वीरसेनस्य सुखेन दिवसा अतिक्रामन्ति - गच्छन्ति । किम्भूतस्य ? अशेषं समस्तं मण्डलं देशं करे - राजभागे स्थितं कृत्वा, करदं विधायेत्यर्थः । अनवरतं-निरन्तरं विख्यातविजयैः आनन्दतीत्येवंशीलः अनवरतविख्यातविजयानन्दी स्य प्रथितविजयैर्दृष्टस्येत्यर्थः । पुनः किम्भूतस्य ? कं - जलं एला - लता असन:- पीतमालस्तैः सुन्दरैः कैलासनैः अभिरम्येषु - मनोज्ञेषु वनान्तरेषु काननविशेषेसु विहरत :- विचरतः । तथा मदनेन निरुद्धाः-व्याप्ताः सकामा या नैषध्यः - निषधदेशोत्पन्नस्त्रियस्तासां पीनोच्चकुचकुम्भयोरवष्टम्भेन-आश्रयेण मसृणितं सुकुमारीकृतं वक्षःस्थलं येन स तथा तस्य । कस्येव ? हरस्येव शम्भोरिव विहरणकृतमिह हरेण सहौपम्यम् । किम्भूतस्य हरस्य ? शेषं - शेषाख्यनागं मण्डलं-कुण्डलाकारं करस्थं - पाणिस्थितं कृत्वा सुन्दरो यः कैलासः - रजताद्रिस्तस्य नाभौ - मध्यभागे रम्याणि यानि वनान्तराणि तेषु विहरतः, नाभिर्मुख्यार्थो वा । पुन: किम्भूतस्य ? अनवरतं विख्यातौ - प्रसिद्धौ विजया - गौरी नन्दी च हरप्रतीहारस्तौ यस्य स तस्य । पुनः किम्भूतस्य ? मदनेन निरुद्धा या नैषधी - निषधस्य गिरेरर्थाद् हिमाद्रेरपत्यं स्त्री नैषधी - गौरी तस्याः कुचकुम्भयोरवष्टम्भेन मसृणितं वक्षःस्थलं यस्य स तथा तस्य ।
१. 'व्याधो मृगवधा जीवी लुब्धको मृगयुश्च सः' अभिधानचिन्तामणिनाममाला मर्त्यकाण्ड पद्य— ९२७. । २. 'कुच° नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org