SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ २५४ दमयन्ती-कथा-चम्पूः नयाज्ञया सदृशी राजते राज्यस्थितिः, सज्जया सेनया सह श्लाघनीया' कृपाणयष्टिः । यस्य चेति । अत्र प्रथमातृतीययोः श्लेषः । तथाहि यस्य-राज्ञा उदारा-सरला मनोवृत्तिः-चेतोव्यापारः अङ्गप्रभया सह स्फुरतिविजृम्भते । किम्भूता मनोवृत्तिः ? बहुशः-बहुभिः प्रकारैः अभया-भयरहिता । किम्भूतया अङ्गप्रभया ? बबी शोभा यस्यां सा तया बहुशोभया । तथा यस्य आज्ञया सदृशी राज्यस्थिति:-राज्यव्यवस्था राजते-शोभते । किम्भूता राज्यस्थितिः ? अखण्ड:-अप्रतिहतो नयः-षाड्गुण्यं सन्धिविग्रहयानासनद्वैधाश्रयरूपं यस्यां सा अखण्डनया । किम्भूतया आज्ञया ? न विद्यते खण्डनं-उल्लघनं यस्याः सा तया, तथा यस्य सेनया सह श्लाघनीयावर्णनीया कृपाणयष्टिः-असिलता । किम्भूता कृपाणयष्टिः ? सत्-शोभनो जयो यस्याः सा तया सज्जया । किम्भूतया सेनया ? सज्जया-सन्नद्धया। "सज्जौ सन्नद्धसम्भृतौ" [२।७८ अनेकार्थः] । यश्च सशृङ्गारो नारीषु, वीरो वैरिषु, सुबीभत्सुः२ परदारेषु, रौद्रो द्रोहिषुरे, सहास्यो नर्मालापेषु, भयानकः संग्रामाङ्गणेषु, सकरुणः शरणागतेषु। तथा यश्च राजा नारीषु सह शृङ्गारेण-सुरतेन रसभेदेन वा विद्यति इति सशृङ्गारः । “शृङ्गारो गजमण्डने सुरते रसभेदे च" [३।६५०] इत्यनेकार्थः । तथा वैरिषु-शत्रुषु वीरः-शूरस्तज्जेतृत्वात् । तथा परदारेषु सुष्ठ बीभत्सः-अहृद्यदर्शनः । तथा द्रोहिषु रौद्रःभृकुटीकरणामर्षादिव्यंग्यरसविशेषवान् । तथा नालापेषु-परिहासवाक्येषु सहास्यःहास्यरसोपेतः । तथा सङ्ग्रामाङ्गणेषु भयानक:-भीष्मः, बिभेति अस्मादिति भयानकः, "आनकः शीङ् भिय इति शेतेर्बिभतेश्चानकः स्यात्, [ ] इति उज्ज्वलदत्तः । तथा शरणार्थमागतेषु नरेषु सकरुणः-सदयः । एवं शृङ्गारादिरसमयत्वमस्य निवेदितम् । शृङ्गारादिषु सप्तस्वपि पदेषु अद्भुतत्वादनुक्तोऽपि अद्भुतो ग्राह्यः । शान्तस्य च विरक्ता एवाधिकारिणोऽतस्तदनुक्तिः । यस्य चतुरुदधितटीटीकमानशरच्चन्द्रविशदयशोराशिराजहंसस्य, निस्त्रिंशता कृपाणेषु, कुचातुर्यं कलत्रेषु, कूपदेशसेवा पापधिकेषुष, लुब्धकपर्यायः कैवर्तकेषु, तीक्ष्णता शस्त्रेषु, धर्मच्छेदो धनुर्विद्यायाम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy