________________
चतुर्थ उछ्वास:
तत्र च व्यतिकरे-तस्मिश्चावसरे तत उड्डीनास्ते - हंसा: क्षणं यावन्नभस्तलं अशोभयन्त- अभूषयन् । कथं किम्भूतं नभस्तलम् ? उत्प्रेक्ष्यते, दिवाऽपि - दिनेऽपि स्फाराणि-विशालानि स्फुरन्ति - दीप्यमानानि तारामण्डलानि यत्र ईदृशमिव । मन्ये, अमी हंसा न भवन्ति किन्तु दिनेऽपि तारामण्डलान्युदितानीति, तेषां श्वेतत्वादियमुत्प्रेक्षा । पुनरुत्प्रेक्ष्यते, अन्तरान्तरा - अन्तरन्तः उन्निद्रं - विकस्वरं कुमुदखण्डं - धवलकमलवनं यत्र ईदृशं विकचानि-सविकसानि यानि नवकुवलयवनानि - नीलाब्जखण्डानि तेषां गहनमिवगह्वरमिव, नीले नभसि श्वेता हंसा इति भ्रान्ति जनयन्ति । मन्ये, इदं नभो न भवति किन्तु कुवलयवनं विद्यते, तत्र चाभी हंसा न भवन्ति किन्तु अन्तरन्तः प्ररूढं कुमुदखण्डमिति ।
अविलम्बिताश्च न चिराद' वायुर्वेदर्भमण्डलमण्डनं कुण्डिनपुरम् ।
अवतेरुश्च चकितचलच्चक्रवाकालोक्यमान कृतान्धकारविभ्रमभ्रमद्भ्रमरभरभज्यमानाम्भोजभाजि राजभवनासन्नकन्यान्तःपुरोद्यानक्रीडासरसि । सरभस' प्रधावितेन सरस्तीरविहारव्यसनिना कन्यकाजनेन निवेदितांस्तांनवलोकयितुमतिकौतुकेन दमयन्ती कन्यान्तः पुरात्पुराणमदिरारुणायताक्षी ६ क्षिप्रमाजगाम ।
२४७
अविलम्बिताश्च विलम्बं - कालक्षेपं अकुर्वाणास्ते-हंसा न चिरादेव - स्तोकेनैव कालेन वैदर्भमण्डलस्य-वैदर्भदेशस्य मण्डनमिव-विभूषकत्वाद् यत्तथाविधं कुण्डिनपुरं अवापुः-प्रापुः ।
अवतेरुश्च-अवतीर्णा, नभस्ते । भूमण्डलं दमयन्ती सरभसं सहर्षं यथा भवति तथा प्रधावितेन-समागतेन तथा सरस्तीरे यो विहार:- विचरणं तत्र व्यसनं -आसक्तिर्विद्यते यस्य स तेन सरस्तीरविहारव्यसनिना कन्यकाजनेन निवेदितान् - कथितान् तान्-हंसान् अतिकौतुकेन कुतूहलातिशयेन अवलोकयितुं कन्यान्तःपुरात् राजभवनस्य - नृपमन्दिरस्य आसन्नंनिकटं यत् कन्यान्तःपुरोद्यानं - राजकन्यकानां क्रीडावनं तस्य यत् क्रीडासरः तस्मिन् क्षिप्रं - शीघ्रं आजगाम-आयासीत् । किम्भूते क्रीडासरसि ? चकिता: - भयाकुलाश्चलन्तः-इतस्ततः पर्यटन्तो ये चक्रवाकास्तैरालोक्यमाना वीक्ष्यमाणा, यतः कृत अन्धकारस्य विभ्रमः - भ्रान्तिर्यैस्ते, ततः कर्मधारयः ईदृशा भ्रमन्तो ये भ्रमरास्तेषां भरेण भारेण भज्यमानानिकुब्जीभवन्ति यानि अम्भोजानि तानि भजति यत् तत् तस्मिन् कृष्णच्छवीन् भृङ्गान् वीक्ष्य । चकवाकाणामन्धकारभ्रमोऽभवत् ततश्चकितास्सन्तस्तान् वीक्षन्त इति । किम्भूता दमयन्ती ? पुराणमदिरावत्-जीर्णसुरावत् आरुणे - ईषद्क्ते आयते - विशाले अक्षिणी यस्याः सा पुराणमदिरारुणायताक्षी ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org