SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ २४८ आगत्य च चटुलतरचरणचञ्चूप्रहारविदलितारविन्दकन्दलानुन्नालबालनलिनी' वनविहारिणस्तान्ग्रहीतुमेकेकशः सखीजनमादिदेश । स्वयं च चलवलय 'चारुरववाचालितप्रकोष्ठेन सविलासं विस्मयकरं३ करपल्लवेन तं राजहंसं राजपुत्री 'मुच्चिक्षेप' । आगत्य च सा-दमयन्ती तान्-हंसान् ग्रहीतुं एकं एकं प्रति इति एकैकशा वीप्सायां स, पृथक् पृथक् सखीजनं आदिदेश - आज्ञप्तवती । किभूतान् तान् ? चटुलतराणां - अतिचञ्चलानां चरणानां चञ्चूनां च प्रहारै:-आघातैः विदलितानि - खण्डशः कृतानि अरविन्दकन्दलानि - अब्जप्ररोहा यैस्ते तथाविधान् । पुन: किम्भूतान् ? उन्नालानि-ऊर्ध्वमृणालानि यानि बालनलिनीवनानिनवपद्मिनीखण्डानि तत्र विहर्तुं शीलं येषां ते उन्नालबालनलिनीवनविहारिणस्तान् । ‘“नालं काण्डे मृणाले च ।” [२।५०६] इत्यनेकार्थः । दमयन्ती - कथा - चम्पूः स्वयं च-आत्मना सा - राजपुत्री करपल्लवेन - पाणिकिसलयेन सविलासं - सविभ्रमं यथा भवति तथा विस्मयं आश्चर्यं करोतीति तथाविधं तं राजहंस यो राजहंसो नलं प्रति एतद्वार्त्तं अचकथत् तं- मरालं उच्चिक्षेप-उद्दध्रे । किम्भूतेन करपल्लवेन ? चलन्तिकरचालनात् कम्पमानानि यानि वलयानि - करकङ्कणानि तेषां यो रवः - स्वनस्तेन चारु यथा स्यात्तथा वाचालित : - मुखरितः प्रकोष्ठः - कलाचिका यस्य स तथा तेन । पाणिपङ्कजस्थित एव सोऽप्यभिमुखीभूय विभाव्य च चेतश्चमत्कारकारण`मस्याः कान्तिविशेष माशिषमदात् । सोऽपि-हंसः पाणिपङ्कजस्थित एव अभिमुखीभूय - सम्मुखो भूत्वा अस्या:दमयन्त्यांश्चेतश्चमत्कारकारणं कान्तिविशेषं विभाव्य - विलोक्य आशिषं अदात्-ददौ । कंदर्पस्य जगज्जैत्रशस्त्रेणाश्चर्यकारिणी' । रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ ६॥ कन्दर्पेति । वृत्तम् । हे रम्भोरु ! त्वं दीर्घायुः - चिरञ्जीविनी सुखिनी च भव । किम्भूता त्वम् ? कन्दर्पस्य जगज्जैत्रं - जगज्जयनशीलं शस्त्रं- आयुधं तेन जगज्जैत्रशस्त्रेण अनेन प्रत्यक्षेण रूपेण - सौन्दर्येण आश्चर्यं करोतीत्येवंशीला आश्चर्यकारिणी । 'जगज्जैत्रशस्त्रेणाश्चर्यकारिणा' इति पाठे तु हे रम्भोरु ! त्वं अनेन रूपेण सुखिनी दीर्घायुश्च भव । किम्भूतेन रूपेण ? आश्चर्यकारिणेति व्याख्येयम् ॥ ६ ॥ १. कर नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy