SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ २४६ दमयन्ती-कथा-चम्पू: इत्यभिधाय-उक्त्वा राजा-नलो राजभवनमयासीत्-जगाम । इतीति किम् ? हे भद्रे वनपालिके! त्वमपि कृता कमलमाला या नितम्बके-जघनप्राये मध्यप्रदेशे क्रीडा येन स तं, इमंहंसमादाय -गृहीत्वा भोजनं-भुक्तं तस्यावसाने-प्रान्ते आस्थीयते यस्यां ईदृशी या गोष्ठी-पर्षत् तस्यां आस्थानगोष्ठ्य स्थितस्य मम समीपं एष्यसि । मालाशब्दगतस्त्रीत्वेन कमलमालायाः साक्षात् स्त्रीत्वाध्यवसायात् । नितम्बशब्द स्त्र्यवयवोऽपि तदर्थमात्रे प्रयुक्तः । राजति-नले च स्ववासभवनं गते सति हंसः१ विलासेन लीलया सरस:-सरस्या यानि तरङ्गान्तराणि-तरङ्गान्तरालानि तेषु चिरं-चिरकालं चिक्रीड-अक्रीडत्। किं कुर्वन् ? राजीविनीनांपद्मिनीनां जीवितसमाः-प्राणोपमाः वल्लभा इत्यर्थः, स्वादूनि-मृष्टानि कोमलानि-मृदूनि यानि मृणालानि-विसानि तान्येव कन्दल्य:-नवप्ररोहास्ता: समास्वादयन्-अनुभवन् । आस्वादः सकर्मकादिति आपूर्वात् स्वदतेः, सकर्मकात् णिज् भवति न पुनरकर्मकात् । आस्वादयति यवागूमित्यादिवत्, अत्रापि णिच् । तथा दलानि-पत्राणि दलयन्-विदारयन् । तथा बहलंनिविडं मधु-मकरन्दो यत्र अतएव स्निग्धानि-आर्द्राणि यानि मधुमुकुलानि-मधूकपुष्पकुड्मलानि तानि कवलयन्-अभ्यवहरन् । “मधुश्चैत्रर्तुदैत्येषु जीवाशाकमधूकयोः । मधुक्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च । इत्यनेकार्थः।" [२।२४७-२४८] तथा शीतला:-शिशिरा, या शैवलावल्य:शैवालपंक्तयस्ता अनुशीलयन्-उपचरन् । च-पुनः स-हंस इति चिन्तितवान् । तथा तेन राज्ञा कृतकं-कृत्रिमं कापटिकं तथा अलंअत्यर्थं आलानितं-बद्धं, तथा बकवत् क्रीडा यस्य तादृशमिमं-हंसं आदाय-गृहीत्वा५ मत्समीपमायास्यसि इति-अमुना प्रकारेण श्लिष्टार्थमिव यथा भवति तथैव वनपालिका आदिष्टा । राजाभिप्रायस्तु कृता कमलमालाया नितम्बके क्रीडा येन इत्येवं रूपः, हंसेन तु एवं प्रतीतं यथा कृतकमित्यादि। तत्-तस्माद्धेतोः इह स्थाने चिरं स्थातुं न युक्तं इति-अमुना प्रकारेण अस्थान एवदोषानवकाश एव आशङ्कमानः-कृतकमित्यादि शङ्का कुर्वन् तेन-पूर्वोदितेन राजहंस-कदम्बकेन सह अम्बरतलं-गगनं उदपतत्-उड्डीनः । “स्थानं स्थित्यवकाशयोः । सादृश्ये सन्तिवेशे च।" [२।२९२] इत्यनेकार्थः । तत्र च व्यतिकरे दिवापि स्फारस्फुरत्तारामण्डलमिव, विकचनवकुवलयवनगहनमिव', अन्तरान्तरोनिद्रकुमुदखण्डमुड्डीनास्ते क्षणमशोभयन्त नभस्तलम् । १. स हंसः अनू. । २. नास्ति अनू. । ३. उपचरन् भजन् अनू. । ४. चिन्तितवान् विचारितवान् अनू. । ५. नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy