SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उछासः २४५ चकोराश्च-चक्रवाकीचकोराश्चलन्तश्चक्रवाकीचकोरा यासु ताः । यत्र क्रीडावापीपरिसरभूषु कुरङ ग्य:-मृग्य: उन्मीलन्ति-विकसन्ति यानि कमलमुकुलानि-पद्मकुड्मलानि तानि आश्रयन्त्याः-अवलम्बमानायाः भृङ्गश्रेण्याः श्रवणयोः-श्रोत्रयोः सुभगं-सुखकारि गीतंझङ्कारारवं आकर्णयन्ति । मृगीणां हि गीतं प्रियं, तत्र च स्वच्छाः सत्यस्ताः भृङ्गाररवं शृण्वन्तीति । एतेन वापीतीरभुवोऽभिगम्यत्वमुक्तम् ॥ ४ ॥ अपि चअतिललिततरं तरङ्गभङ्गैरिदमपि तृड्भरवारि वारि वाप्याः । भ्रमदलिनिवहं वहन्ति यस्मिन्महिमकरं मकरन्दसाम्बुजानि ॥ ५ ॥ अपि च-पुन: अतीति वृत्तम् । यस्मिन् वारिणि महिमकरं-माहात्म्यकरं तथा भ्रमन्सौरभ्यातिशयात् परितः पर्यटन् अलिनिवहः-भृङ्गगणो यत्र ईदृशं मकरन्दं-रसं अम्बुजानिपद्मानि वहन्ति-धारयन्ति । तदिदं वाप्या वारि "तरङ्गभङ्गैः-वीचिविच्छित्तिभिः अतिललिततरं-अतिचारुतरं वर्तते । किंविशिष्टं वारि ? तुड्भरं-तृष्णातिशयं वारयतिछिनत्ति यत्तत् तृड्भरवारि । पूर्ववृत्तक्रीडावापीभूकथनापेक्षया अपिशब्दोऽत्र समुच्चये ॥५॥ त्वमपि भद्रे वनपालिके, कृतकमलमालानितम्बकक्रीडमिममादाय भुक्तावसानास्थानगोष्ठीस्थितस्य मम समीपमेष्यसि इत्यभिधाय राजा राजभवनमयासीत् । ____ गते च राजनि राजीविनीनां जीवितसमाः समास्वादयन्स्वादुकोमलमृणालकन्दलीः, दलयन्द लानि, कवलयन्बहलमधुरस्निग्धमधुमुकुलानि२, अनुशीलयशीतलशैवलावली:, विलासेन स हंससरसस्तरङ्गान्तरेषु चिरं चिक्रीड। .. चिन्तितवांश्च तेन राज्ञा ‘कृतकमलमालानितम्बकक्रीडमिममादाय मत्समीपमेष्यसि' इति श्लिष्टार्थ मिवादिष्टा वनपालिका । तन्न युक्तमिह चिरं स्थातुमिति । इत्यस्थान५ एवाशङ्कमानः सह तेन राजहंसकदम्बके नाम्बरतल मुदपतत् । १. झंकारारावं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy